"महाभारतम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३४:
७. चतुर्थपञ्चमशतकलिखितेषु दानपत्रकेषु स्मृतिरूपेण महाभारतवचनानि निर्दिष्टानि दृष्टानि ।
८. ४६२ स्त्रीष्टोत्की-एकत्र शिलालेखे पाराशर्यव्यासस्य लक्षश्लोकात्मकस्य महाभारतप्रणेतृत्वम् उल्लिखति ।
९. [[सिरिया|सीरिया]]देशभाषायाम्सीरियादेशभाषायाम् उपलभ्यमानस्य शान्तिपर्वाध्यायत्रयस्य साक्ष्येण हर्टलमहोदयः प्रमाणयति यत् प्रचलितं महाभारतम् ई.पू. पञ्चमशतकनिबद्धात् महाभारतात् न भिद्यते इति ।
१०. डयोन क्राइसोस्तोम (Dion Chyrsostom) महोदयस्य साक्ष्येण प्रतीयते यत् ५० ख्रीष्टाब्दकाले लक्षपद्यात्मकं महाभारतं दक्षिणपथे लब्धप्रचारमासीत् इति ।
११. ख्रिष्टप्रथमशतके स्थितेन वज्रसूचीकृत्ताश्वघोषेण हरिवंशस्थ पद्यमेकमुद्धतम् । एभिः सर्वैः समुदितैरेतत् सिद्धं यत् ख्रीष्टशतकप्रारम्भे महाभारतम् अवश्यम् अवर्तत । अपि च –
(क) [[पाणिनिः|पाणिनिः]] महाभारतं जानाति स्मेति डल्ह्मैन (Dalhmann) साक्ष्येण प्रतीयते ।
(ख) ख्रीष्टपूर्वपञ्चमशतकप्रणीते आश्वलायनगृह्यसूत्रे महाभारतस्य उल्लेखो दृश्यते ।
(ग) ४०० ई.पू समये निर्मिते [[[बौधायनस्मृतिः|बौधायनधर्म]]सूत्रे महाभारतस्योल्लेखो दृश्यते ।
(घ) बौधायनगृह्यसूत्रे महाभारतीयं विष्णुसहस्रनामोद्ध्रियते स्म ।
(ङ) महाभारतीयशान्तिपर्वणि [[विष्णुः|विष्णो]]र्दशावतारगणनाकाले[[गौतमबुद्धः|बुद्ध]]स्य नाम नायाति ।
(च) मेगास्थनीजप्रणीते भारतवर्णने याः कथाः ता महाभारतात् एव प्राप्ताः ।
(छ) ब्रह्म सर्वदेवज्येष्ठतया महाभारते प्रतिपादितः । [[पालिभाषा|पालिभाषा]]साहित्येन ज्ञायते यद् ब्रह्मणो ज्यैष्ठत्वं ख्रीष्टपूर्वपञ्चमशतकात् प्रागेव प्ररूढप्रचारमासीत् ।
(ज) [[ज्यौतिषायुर्वेदौज्योतिषशास्त्रम्|ज्यौतिष]]प्रमाणैः अपि कतिपये विद्वांसः कल्पयन्ति यत् वर्त्तमानं महाभारतम् ५०० ई.पू. समयात् प्रागेव निर्मितं न ततः परम् ।
अतः सर्वसमीक्षया महाभारतम् ५०० ई.पू. समयतः परतो न निर्मितं किन्तु कदाचित् पूर्वमेव निर्मितमिति प्रतीयते ।
</poem>
"https://sa.wikipedia.org/wiki/महाभारतम्" इत्यस्माद् प्रतिप्राप्तम्