"राबर्ट् कोख्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २६:
कदाचित् तस्य राबर्ट् कोखस्य जन्मदिने तस्य पत्नी तस्मै एकं सूक्ष्मदर्शकयन्त्रम् उपायनरूपेण अयच्छत् । तदेव तस्य रबर्ट् कोखस्य अमूल्यम् उपकरणम् अभवत् । सः प्रथमं तेन यन्त्रेण मृतायाः कस्याश्चित् [[धेनुः|धेनोः]] [[रक्तम्|रक्तस्य]] परीक्षाम् अकरोत् । तदवसरे तेन अरोगवतां प्राणिनां [[शरीरम्|शरीरे]] अविद्यमानं किञ्चित् वस्तु तस्मिन् रक्ते दृष्टम् । सः राबर्ट् कोख् १८९७ तमे वर्षे धेनूनां "प्लेग्”रोगस्य तथा मलेरियारोगस्य च विषये संशोधनम् अकरोत् । तेन प्रयोगेण सूक्ष्मजीविनः एव तेषां रोगाणां कारणाम् इति ज्ञातम् । [[मेषः|मेषाणां]] विचित्ररोगस्य "अन्थ्राक्स्” इत्यस्य शलाकाकारकाः ब्याक्टीरीयाः (ब्यासिल्लै) एव कारणम् इत्यपि संशोधनम् अकरोत् । तस्य कार्यं तदा सुलभं न आसीत् । तस्य प्रयोगार्थं स्थलम् एव नासीत् । अतः सः स्वस्य गृहस्य उपवेशनाङ्गणम् एव प्रयोगशालारूपेण परिवर्तितवान् आसीत् । तत्र सर्वत्र तेन उपयुज्यमानानि उपकरणानि पतितानि भवन्ति स्म । सर्वत्र गृहे रासायनिकानां वस्तूनां कटुगन्धः , [[शशः|शश]]मूषकाणां मलमूत्रादीनां गन्धः वा प्रसृतः भवति स्म । तस्य सम्पूर्णं लक्ष्यं संशोधनदिशि एव आसीत् इति कारणतः सदा प्रयोगनिरतः भवति स्म । तेन धनस्य सम्पादनं न्यूनं जातम् । तदवसरे गृहस्य निर्वहणम् एव कर्तुं न शक्यते स्म । अयं राबर्ट् कोख् तादृश्यां परिस्थितौ अपि धैर्यहीनः न जातः । स्वीयं संशोधनकार्यम् अनुवर्तितवान् । किञ्चित् कालानन्तरं विभिन्नानां सङ्घ-संस्थानां द्वारा गौरवसमर्पम् आरब्धम् । नूतनानाम् उद्योगानाम् आह्वानानि अपि आगतानि । जर्मन्-सर्वकारः एव तं राबर्ट् कोखं [[बर्लिन्]]-नगरे स्थितम् इम्पीरियल् हेल्त् इन्स्टिट्यूट् प्रति प्रेषयित्वा संशोधनार्थम् आवश्यकानि आनुकूल्यानि अकल्पयत् । लण्डन्-नगरे प्रवृत्ते विश्ववैद्यसम्मेलने तेन राबर्ट् कोखेन प्रस्तुतः अन्थ्राक्स्-सम्बद्धः प्रबन्धः सर्वेषां प्रशंसां प्राप्नोत् । तत्र प्राप्तेन प्रोत्साहेन राबर्ट् कोख् मारकरोगस्य क्षयस्य कारणं संशोधयितुम् उद्युक्तः अभवत् । वर्षद्वये एव सः तस्मिन् कार्ये सफलः अभवत् अपि । तथैव जिलेटिन् मध्ये विभिन्नाः ब्याक्टीरियाः वर्धयितुं शक्यन्ते इत्यपि संशोधितवान् । जर्मन्-सर्वकारः तं राबर्ट् कोखं भारतं तथा [[ईजिप्त्|ईजिप्तं]] प्रति कालरारोगिणां परीक्षणार्थं प्रेषितवान् । तदा अपि राबर्ट् कोख् कालरारोगस्य कारणीभूतान् ब्याक्टीरियान् संशोधितवान् । तथैव तेषां ब्याक्टीयाणां वर्धनस्य नियन्त्रणं कथं करणीयम् इत्यपि अदर्शयत् । तस्य राबर्ट् कोखस्य एतादृशस्य महाकार्यस्य निमित्तं सः १९०५ तमे वर्षे "नोबेल्”पुरस्कारेण सम्मानितः अपि । अयं राबर्ट् कोख् ६७ वर्षाणि यावत् अजीवत् । १९१० तमे वर्षे मेमासस्य २७ तमे दिनाङ्के इहलोकम् अत्यजत् ।
 
[[वर्गः:==बाह्यानुबन्धः योजनीयः]]==
* ID Tree: [http://academictree.org/idtree/peopleinfo.php?pid=32784 Robert Koch Details]
* [http://nobelprize.org/medicine/laureates/1905/koch-bio.html Robert Koch Biography at the Nobel Foundation website]
* [http://vlp.mpiwg-berlin.mpg.de/people/data?id=per99 MPIWG-Berlin], Robert Koch Biography and bibliography in the [[Virtual Laboratory]] of the [[Max Planck Institute for the History of Science]]
* [http://www.sciencemuseum.org.uk/broughttolife/people/robertkoch.aspx Biography on the Science Museum web site]
* [http://www.musoptin.com/zeiss_3479.html Musoptin.com], original microscope out of the laboratory Robert Koch used in Wollstein (1877)
* [http://www.musoptin.com/seibert_photoobjektive.html Musoptin.com], microscope objectives: as they were used by Robert Koch for his first photos of microorganisms (1877–1878)
 
[[वर्गः:अन्यदेशीयवैज्ञानिकाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/राबर्ट्_कोख्" इत्यस्माद् प्रतिप्राप्तम्