"महाभारतम्" इत्यस्य संस्करणे भेदः

निर्वाचितलेखेषु नान्तर्भवति
पङ्क्तिः १:
{{निर्वाचित लेख}}
<br>
<br>
[[चित्रम्:Kurukshetra.jpg|thumb|300px|कुरुक्षेत्रम्]]
'''महाभारतम्'''(आङ्ग्लभाषा Mahabharata) महर्षिणा [[वेदव्यासः|वेदव्यासेन]] विरचितः बहुप्रसिद्धः इतिहासः विद्यते। अस्मिन् ग्रन्थे [[कौरवाः|कौरव]]-[[पाण्डवाः|पाण्डवानां]] महायुद्धं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य [[धर्मः|धर्म]]-[[अर्थः|अर्थ]]-[[कामः|काम]]-[[मोक्षः|मोक्ष]]-रूपाः [[पुरुषार्थः|समस्तपुरुषार्थाः]] अत्र विशालग्रन्थे सन्निवेशिताः। अस्य [[महाभारतम्| महाभारतस्य]] भीष्मपर्वणि [[भगवद्गीता|श्रीमद्‌भगवद्‌गीता]] विद्यते। भगवता [[कृष्णः|कृष्णेन]] मोहग्रस्तम् [[अर्जुनः|अर्जुनं]] प्रति [[ज्ञानम्|ज्ञान]]-[[कर्मवादः|कर्म]]-[[भक्तिः|भक्ति]]-विषयकः उपदेशः गीतायां प्रदत्तः। अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति। मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति। इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव।
"https://sa.wikipedia.org/wiki/महाभारतम्" इत्यस्माद् प्रतिप्राप्तम्