"अहमदाबाद" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ४९:
== इतिहासः ==
 
११ शताब्द्यां कर्णावतीनगरं परितः 'भील'वंशीयस्य 'आशावल'नामकराज्ञः राज्यम् आसीत् । [[पाटण]]पत्तनस्य 'सोलङ्की'वंशीयः राजा [[कर्णदेवः]] 'आशावल'राजानं पराज्य कर्णावत्याः अधिपतिः जातः । तत् स्थानम् अधुना मणिनगरम् इति नाम्ना प्रसिद्धमस्ति । 'सोलङ्की'वंशराजानः अत्र १३ शताब्दपर्यन्तं शासनं कृतवन्तः । ततः 'मुजाफ्फरदीन'वंशराज्ञां शासनम् आसीत् । कर्णावतीनगरनिर्माणस्य एका रोचकी कथा वर्तते । <br>
 
एकवारम् 'अहमद्'नामकः राजा [[साबरमतीनदी|साबरमतीनद्याः]] तीरे स्वश्वानेन सह अटन्नासीत् । सः श्वानः अत्यन्तः आक्रामकः, मदान्धश्च आसीत् । राजा अटन् अग्रे गतवान्, तस्मिन्नेव समये श्वानः एकस्य शशकस्य पृष्टे अधावत् । परन्तु राजा आश्चर्यचकितः जातः । शशकः निर्भयो भूत्वा श्वानोपरि एवाक्रमणं कृतवान् । शशकाक्रमेण भीतः श्वानः प्रत्यधावत्, शशकश्च तस्य श्वानस्य पृष्ठे धावन्नासीत् । एतत् दृश्यं दृष्ट्वा राजा अचिन्तयत्, "यदि अत्रस्थः एकः शशकः एतावत् निर्भयः, पराक्रमी चास्ति, तर्हि अत्रस्थानां जनानां विषये तु किं चिन्तनीयम् ? अहम् अत्रैव मम नगरस्य निर्माणं करिष्यामी"ति । एषा घटना १४११ तमे वर्षे घटिता आसीत् । तस्मिन्नेव वर्षे राजा अत्र नगरं निर्मापितवान् । नगरप्रवेशाय 'शेख अहमद्', 'गञ्जबक्षी काजी अहमद्', 'मलेक अहमद्', 'सुल्तान अहमद्' इत्याख्यानि चत्वारि द्वाराणि निर्मापितवान् । द्वाराणां निर्माणकार्यं १४१७ तमे वर्षे समाप्तं जातम् । <br>
"https://sa.wikipedia.org/wiki/अहमदाबाद" इत्यस्माद् प्रतिप्राप्तम्