"वराहमिहिरः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''वराहमिहिर:''' कश्चित् [[भारतम्|भारतीय:]] [[ज्योतिषशास्त्रम्|ज्योतिषी]] [[गणितम्|गणितशास्त्रज्ञ:]] च आसीत्। एषः
[[उज्जयिनी|उज्जयिनीनगरे]] राज्ञ: [[विक्रमादित्यः|विक्रमादित्यस्य]] अस्थाने आसीत् । [[सिद्धान्तः]] [[संहिताज्योतिषम्संहिता(ज्योतिषम्)|संहिता]] [[होरा]] चेति ज्योतिश्शास्त्रस्य त्रयः विभागाः । वराहमिहिरः एतान् त्रीन् भागान् अपि अधिकृत्य ग्रन्थान् विलिख्य ख्यातः अस्ति । एषः क्रि.श. ६ शतके आसीत् इति परिगण्यते ।
विक्रमादित्यस्य आस्थाने स्थितेषु नवसु रत्नेषु अन्यतमः आसीत् एषः इत्यपि प्रतिपादयन्ति केचन । एषः अवन्तिनिवासी आसीत् , आदित्यदासः एतस्य पिता आसीत् इति च ज्ञायते । [[पञ्चसिद्धान्तिका]], लघुसंहिता, वाराहीसंहिता, [[बृहत्संहिता|बृहज्जातकम्]] इत्येते ग्रन्थाः एतेन रचिताः सन्ति । तत्र बहुज्जातकं सुप्रसिद्धम् । बृहज्जातके ४००० श्लोकाः, १०० अध्यायाः च सन्ति । ज्योतिषिकलक्षणम्, नक्षत्रव्यूहः, वृष्टिः, [[वास्तुशास्त्रम्|वास्तुविद्या]], अश्वलक्षणं, वज्रपरीक्षा, पाकाध्यायः इत्यादयः, बहवः विषयाः निरुपिताः सन्ति अत्र । अतः एषः ग्रन्थः ‘लघुविश्वकोषः’ इत्येव परिगण्यते । पूर्वकृतीनाम् आधारेण ग्रन्थं रचितवान् एषः तत्र तत्र आधारग्रन्थान् अपि उल्लिखति ।
 
"https://sa.wikipedia.org/wiki/वराहमिहिरः" इत्यस्माद् प्रतिप्राप्तम्