"नाट्यशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३४:
:'''रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।'''
:'''जुगुप्सा विस्मयश्चेति स्थायिभावः प्रकीर्तितः ॥''' इति ।
एवं शृङ्गाररसस्य स्थायिभावः '''रतिः,''' हास्यरसस्य '''हासः, वीरस्य '''उत्साहः''', '''करुणरसस्य '''शोकः''' रौद्ररसस्य '''क्रोधः''' भयानकस्य '''भयम्,'''बीभत्सरसस्य '''जुगुप्सा''' अद्भुतरसस्य '''विस्मयः,''' शान्तरसस्य तु नाट्ये प्रसक्त्यभावे सत्यपि शान्तस्य '''शमः''' स्थायिभावः भवति इति वदति । ततः भावाः निरुच्यन्ते । भावलक्षणम्, यथा -
:वागङ्गसत्वोपेतान् काव्यार्थान् भावयन्ति इति भावाः । इति ।
यद्यपि "भाव"शब्दस्य अनेके अर्थाः शास्त्रेषु दृश्यन्ते । तथापि अत्र भावनिरूपणे भावः नाम चित्तवृत्तिः इत्यर्था स्वीकरोति । तथा "विभावः" नाम निमित्तम् इत्यर्थे भावयति । वस्तुतः भावस्य निष्पत्तिकारणम् भावाविर्भावहेतुः "विभावः" इति कथ्यते । यथा '''अभिज्ञानशाकुन्तले''' शकुन्तलायाः तपोवनविरुद्धस्य रतिस्थायिभावस्य उद्दीपनहेतुः दुष्यन्तः '''आलम्बनविभावः''' भवति । तथैव स्वचित्तगतविषयान् भ्रूविक्षेपादिभिः प्रटनम् एव '''अनुभावः''' । आहत्य अष्टविधान् अनुभावान् सङ्ख्यापयति भरतः, यथा -
"https://sa.wikipedia.org/wiki/नाट्यशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्