"वायुः" इत्यस्य संस्करणे भेदः

<!-- अस्य लेखस्य tagging and coding अवशिष्टमस्ति --> '''वायुः''' ({... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १६६:
यदा जलबाष्पः उपरि गच्छति, तदा अयं शीतलः भवति । जलबाष्पः सङ्घनितो भूत्वा जलबिन्दवः निर्माति । मेघः जलबिन्दूनां समूहः वर्तते । यदा जलबिन्दूनां भारः वर्धते, तदा वर्षारूपे अधः पतति ।
 
[[पृथ्वी|पृथिव्यां]] "जलवर्षणं" वर्षा इति कथ्यते । वर्षाजलेन एव अधिकतमं भौमजलं प्राप्यते । पादपाः जलसंरक्षणे साहाय्यं कुर्वन्ति । पादपानां, जीवानां, जन्तूनां च जीवनाय वर्षा महत्वपूर्णा वर्तते । वर्षया धरातलं नूतनजलं प्राप्नोति । वर्षायाः अभावेन जलस्य अभावः, शुष्कः भवति । अस्य विपरीतस्थितौ अधिकवर्षया अपि जनानां, धनस्य सस्यानां च हानिः जायते ।<ref>{{Cite book|author=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)|title=हमारा पर्यावरण|publisher=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)| isbn=8174507485|page=26|year=2007 }}</ref>
 
==वायोः गुणाः==
वायुः शारीरिकस्वास्थ्याय महत्त्वपूर्णः भवति । भारतीयप्राचीनशास्त्रेषु आयुर्वेदः इति अन्यतमं शास्त्रं वर्तते । आयुर्वेदे अपि वायोः विभिन्नगुणाः प्राप्यन्ते <ref>{{Cite book| title=आयुर्वेदः (मध्यमा २)|publisher=गुजरात राज्य शाला पाठ्यपुस्तक मण्डल|volume=1|page=२६|year=२०११}}</ref>। विभिन्नदिशां, वायूनां च महत्त्वम् अपि आयुर्वेदशास्त्रे वर्णितम् अस्ति ।
* पूर्वदिशः वायुः मधुरः, स्निग्धः, विदाही, लवणः, गुरुः, रक्तपित्तवर्धनः च भवति ।
* दक्षिणदिशः वायुः मधुरः, कषायः, अविदाही च भवति ।
* उत्तरदिशः वायुः स्निग्धः, मधुरः, मृदु, कषायः, शीतश्च भवति ।
* पश्चिमदिशः वायुः विशदः, रुक्षः, परुषः, बलनाशकः, कासशोषकः च भवति <ref>{{Cite book| title=आयुर्वेदः (मध्यमा २)|publisher=गुजरात राज्य शाला पाठ्यपुस्तक मण्डल|volume=1|page=२६|year=२०११}}</ref>।
 
==वायोः अशुद्धयः==
वायोः बह्व्यः अशुद्धयः भवन्ति । वायुमण्डलस्य सङ्घटने परिवर्तनात् अशुद्धयः उत्पद्यन्ते । पृथिव्यां बहुभ्यः कारणेभ्यः अनेकाः अशुद्धयः भवन्ति । यत्र मानवाः निवसन्ति, तत्र वायुसङ्घटने परिवर्तनं अधिकं भवति <ref>{{Cite book| title=आयुर्वेदः (मध्यमा २)|publisher=गुजरात राज्य शाला पाठ्यपुस्तक मण्डल|volume=1|page=२६|year=२०११}}</ref>। किन्तु यत्र मानवरहितक्षेत्राणि सन्ति, तत्र वायुसङ्घटने परिवर्तनं अधिकं न भवति । वायोः अशुद्धीनां चत्वारः प्रकाराः सन्ति । ते - १ श्वसनम्, २ जलबाष्पम्, ३ सङ्क्रमणम्, ४ दहनम् च ।
 
===श्वसनम् (Respiration) ===
जीवाः श्वसनप्रक्रियायाम् ऑक्सीजन्-वायुः स्वीकुर्वन्ति, कार्बन्-डाई-ऑक्साइड् वायुः निष्कासयन्ति च । वनस्पतयः कार्बन्-डाई-ऑक्साइड्-वायुः स्वीकुर्वन्ति, ऑक्सीजन्-वायुः निष्कासयन्ति च । किन्तु रात्रौ वनस्पतयः कार्बन्-डाई-ऑक्साइड्-वायुं निष्कासयन्ति । कार्बन्-डाई-ऑक्साइड्-वायोः अशुद्धिः भवति <ref>{{Cite book| title=आयुर्वेदः (मध्यमा २)|publisher=गुजरात राज्य शाला पाठ्यपुस्तक मण्डल|volume=1|page=२७|year=२०११}}</ref>।
 
यदि एकस्मिन् प्रकोष्ठे बहवः जनाः स्युः, तर्हि प्रकोष्ठे शुद्धवायोः प्रमाणं न्यूनीभवति । तेन अशुद्धवायुः उत्पद्यते । अशुद्धवायुना अस्माकं शरीरे बहवः रोगाः भवितुं शक्नुवन्ति । यथा- शिरोवेदना, छर्दिः, निद्राधिक्यं, मूर्च्छा इत्यादयः रोगाः उत्पद्यन्ते । अतः श्वसनप्रक्रियायाम् ऑक्सीजन् कार्बन्-डाई-ऑक्साईड् वाय्वोः समप्रमाणता आवश्यकी भवति । कारणं सामान्यव्यक्तिः श्वासे ६०० मि.ली. वायोः स्वीकरोति <ref>{{Cite book| title=आयुर्वेदः (मध्यमा २)|publisher=गुजरात राज्य शाला पाठ्यपुस्तक मण्डल|volume=1|page=२७|year=२०११}}</ref>। तस्मिन् ऑक्सीजन्-वायोः मात्रा २१% भवति । तदा व्यक्तिः ५% ऑक्सीजन्-वायोः उपयोगं करोति । अनन्तरं अवशिष्टं १६% ऑक्सीजन्-वायुं निष्कासयति । प्रश्वसितवायौ कार्बन्-डाई-ऑक्साईड्-वायोः मात्रा ०.००४% भवति । किन्तु निष्कासने सः ४% तः ५% पर्यन्तं वृद्धिं प्राप्नोति<ref>{{Cite book| title=आयुर्वेदः (मध्यमा २)|publisher=गुजरात राज्य शाला पाठ्यपुस्तक मण्डल|volume=1|page=२७|year=२०११}}</ref> । अनया प्रक्रियया स्वास्थ्यं समीचीनं भवति, अन्यथा रोगाः उत्पद्यन्ते ।
 
===जलबाष्पम्===
श्वसनक्रियायां यदा मनुष्यः कार्बन्-डाई-ऑक्साईड्-वायुं निष्कासयति, तदा तेन सह ६% जलबाष्पम् अपि निष्कासयति <ref>{{Cite book| title=आयुर्वेदः (मध्यमा २)|publisher=गुजरात राज्य शाला पाठ्यपुस्तक मण्डल|volume=1|page=२७|year=२०११}}</ref>। स जलबाष्पः वायुना सह सम्मिलति । जलबाष्पः स्वेदरूपेण निर्गच्छति । सः बाष्पीभूय वायुं सम्मिलति । सूर्यस्य तापेन, जलं बाष्पीभूय वायुना सह सम्मिलति । तेन वायुसङ्घटने वृद्धिक्षीणत्वं भवति । तस्मात् एव बह्व्यः अशुद्धयः सम्भवन्ति ।
 
===सङ्क्रमणम्===
वायौ अशुद्धयः स्युः चेत् रोगाणाम् उत्पादकः विषाणुः, जीवाणुः च उत्पद्यते । ते विषाणवः, जीवाणवः च सामीप्येन, श्वासोच्छ्वासेन, ष्ठीवेन च वायुं प्रविशन्ति । तेन कारणेन वायुः अशुद्धः भवति । क्लोमपाकः (Pneumonia), श्वासरोगः (Asthma), क्षयरोगः (Tubercular), श्लेष्मरोगः (Influenza), मांससंतानिका (Diphtheria), चर्मरोगः, चक्षुरोगः इत्यादयः रोगाः अशुद्धवायुसङ्क्रमणेन उत्पद्यन्ते<ref>{{Cite book| title=आयुर्वेदः (मध्यमा २)|publisher=गुजरात राज्य शाला पाठ्यपुस्तक मण्डल|volume=1|page=२७|year=२०११}}</ref> ।
 
===दहनम्===
मनुष्यजीवनचालनाय अनेकप्रकारकाणां ज्वलनशीलपदार्थानाम् आवश्यकता भवति । पुरा काष्ठः इन्धनत्वेन उपयुज्यते स्म । तेन वायौ ऑक्सीजन्-वायोः उपयोगः भवति स्म । कस्यापि वस्तुनः दहने ऑक्सीजन्-वायोः अत्यधिकावश्यकता भवति । दहनानन्तरं तस्मात् कार्बन्-डाई-ऑक्साईड् उत्पद्यते<ref>{{Cite book| title=आयुर्वेदः (मध्यमा २)|publisher=गुजरात राज्य शाला पाठ्यपुस्तक मण्डल|volume=1|page=२७|year=२०११}}</ref> । तेन वायुः अशुद्धः भवति । आधुनिककाले अपि भोजनालये यः वायुः उपयुज्यते, तस्मिन् अपि ऑक्सीजन् वायोः आधिक्यं भवति । तेन ऑक्सीजन्-वायोः अधिकः व्ययः भवति । दहने सर्वाधिकः कार्बन्-डाई—ऑक्साईड्-वायुः एव उद्भवति । सः वायौ अभ्येति । ये ज्वलनशीलपदार्थाः सम्यक्तया न प्रज्वलन्ति, तेभ्यः कृष्णवर्णीयः, श्वेतवर्णीयः, पीतवर्णीयः च धूम्रः निर्गच्छति । श्वेतधूम्रे टार्, सल्फर्-डाई-ऑक्साईड्-वायुः च अधिकमात्रायाम् उद्भवति<ref>{{Cite book| title=आयुर्वेदः (मध्यमा २)|publisher=गुजरात राज्य शाला पाठ्यपुस्तक मण्डल|volume=1|page=२७|year=२०११}}</ref> । ताभ्यां रोगाः जायन्ते ।
 
वायोः अशुद्धेः अन्यानि अपि बहूनि कारणानि सन्ति । यथा – जैविकपदार्थानाम् अपघटनम्, उद्योगानि, विद्युदुत्पादनानि, यानानि, यन्त्राणि, रजकणः, मानववृद्धिः, जनसमूहः च <ref>{{Cite book| title=आयुर्वेदः (मध्यमा २)|publisher=गुजरात राज्य शाला पाठ्यपुस्तक मण्डल|volume=1|page=२७|year=२०११}}</ref>।
 
==निवासस्थानेषु वायोः प्रवेशनिकासयोः व्यवस्था==
यथा आहारस्य आवश्यकता स्वास्थ्यरक्षार्थं भवति, तथैव निवासाय स्थानस्य अपि आवश्यकता भवति । अनामयार्थं स्वच्छस्थानस्य महत्त्वं वर्तते । निवासस्थाने पर्याप्तमात्रायां वायोः आवागमनं भवेत् तथैव तत्स्थाने व्यवस्था करणीया । वातायनानि, द्वाराणि च पर्याप्तमात्रायां स्युः<ref>{{Cite book| title=आयुर्वेदः (मध्यमा २)|publisher=गुजरात राज्य शाला पाठ्यपुस्तक मण्डल|volume=1|page=२७|year=२०११}}</ref> ।
 
साम्प्रते काले वास्तुशास्त्रानुसारं गृहनिर्माणं भवति । अतः वास्तुशास्त्रानुसारं वायोः आवागमनव्यवस्था क्रियते । अस्माकं देशस्य जनसङ्ख्या अधिका अस्ति । अतः जनसङ्ख्यावृद्धिकारणात् निवासस्य समस्या भवति । उन्नतभवननिर्माणेन वायोः आवागमनव्यवस्थायां बाधा भवति । तद् स्वास्थ्याय हानिकारकम् अस्ति <ref>{{Cite book| title=आयुर्वेदः (मध्यमा २)|publisher=गुजरात राज्य शाला पाठ्यपुस्तक मण्डल|volume=1|page=२७|year=२०११}}</ref>। यस्मिन् स्थाने जनसङ्ख्या अपि अधिका भवति, तत्रापि वायोः आवागमनव्यवस्था बाधिता भवति ।
 
==वायोः अशुद्धिजन्यरोगाः==
१ क्लोमपाकः (Pneumonia), २ राजयक्ष्मा, ३ श्लेष्मरोगः (Influenza), ३ मांससंतानिका (Diphtheria), ४ श्वासरोगः (Asthma), ५ चर्मरोगः, ६ चक्षुरोगः, ७ क्षयरोगः (Tubercular), ८ कर्करोगः (Cancer), ९ ज्वरः(fever), १० अतिसारः (Diarrhea), ११ मूर्छा, १२ हृदयरोगः, १३ शिरोवेदना (Headache) , १४ आलस्यं, १५ नाडिमन्दता, १६ उत्क्लेशः, १७ अपस्मार (Epilepsy), १८ उन्मादः, १९ आक्षेपः, २० रक्तिमा, २१ विषाक्तरोगः, २२ प्रत्युर्जता (Allergy) <ref>{{Cite book| title=आयुर्वेदः (मध्यमा २)|publisher=गुजरात राज्य शाला पाठ्यपुस्तक मण्डल|volume=1|page=२७|year=२०११}}</ref> ।
 
==वायुशुद्धिप्रकाराः==
अस्माकं संस्कृतेः प्राचीनतमं चिकित्साशास्त्रम् आयुर्वेदः अस्ति । आयुर्वेदचिकित्सायां ओषधीभिः सह यज्ञहोमादिनाम् अपि वर्णनं कृतम् अस्ति <ref>{{Cite book| title=आयुर्वेदः (मध्यमा २)|publisher=गुजरात राज्य शाला पाठ्यपुस्तक मण्डल|volume=1|page=२८|year=२०११}}</ref>। यज्ञे अनेकेषां प्रकारकाणां द्रव्याणाम् उपयोगः भवति । तेन वायुमण्डलस्य शुद्धिः भवति । तेषु यज्ञद्रव्येषु मुख्यत्वेन गुग्गुलः, राजिका, यवः, सर्षपः, चन्दनं, कर्पूरं, घृतं, लोहितपुष्पा, गन्धकः, अगरुः, देवदारुः इत्यादिनां प्रयोगः क्रियते । पुरा वायुप्रदूषणानि न्यूनानि आसन् । किन्तु आधुनिककाले वायुप्रदूषणानि अधिकानि सन्ति । अतः यज्ञकर्मणाम् अत्यावश्यकता वर्तते<ref>{{Cite book| title=आयुर्वेदः (मध्यमा २)|publisher=गुजरात राज्य शाला पाठ्यपुस्तक मण्डल|volume=1|page=२८|year=२०११}}</ref> ।
 
===वायोः शुद्ध्यर्थं प्राकृतिकसाधनानि===
प्रकृतौ वायोः गतेः महत्त्वं वर्तते । वायुगत्या प्रकृतिः शुद्धा भवति । वायुः शीघ्रगत्या स्थानान्तरं करोति । तेन वायुः शुद्धिं प्राप्नोति । वायुमण्डले ऑक्सीजन्, कार्बन्-डाई-ऑक्साईड् इत्येतौ द्वौ वायू प्रकृत्याः अशुद्धिं निष्कासयतः । वनस्पतिः, वृक्षाः, पादपाः च मनुष्यजीवनाय महत्त्वपूर्णाः सन्ति । यतः ते वायुमण्डलात् कार्बन्-डाई-ऑक्साईड्-वायुं स्वीकुर्वन्ति, ऑक्सीजन्-वायुं निष्कासयन्ति च । तेन कारणेन वायुमण्डलस्य शुद्धिः भवति । अपरं च सूर्यस्य किरणैः वायुमण्डलस्य विभिन्नरोगाः, रोगकारकाः सूक्ष्मजन्तवः च नश्यन्ति<ref>{{Cite book| title=आयुर्वेदः (मध्यमा २)|publisher=गुजरात राज्य शाला पाठ्यपुस्तक मण्डल|volume=1|page=२८|year=२०११}}</ref> ।
== सम्बद्धाः लेखाः ==
* [[जलम्]]
* [[खनिजः|खानिजः]]
* [[मृत्तिका]]
* [[प्राकृतिकी आपदा|प्राकृतिकी आपद्]]
* [[पृथ्वी]]
* [[कृषिः]]
Line १८१ ⟶ २२४:
 
== सन्दर्भः ==
{{Reflist|10em2}}
"https://sa.wikipedia.org/wiki/वायुः" इत्यस्माद् प्रतिप्राप्तम्