"भारतस्य पर्वतीयरेल्-मार्गाः" इत्यस्य संस्करणे भेदः

(लघु) gcache removed this entry
पङ्क्तिः ३२:
<ref>{{Cite web|url=http://archive.is/20120804095010/www.irfca.org/articles/isrs/isrs082004-steam-history.html|title= Steam in History|accessdate=2010-04-03|publisher=The Indian Railways fan Club (IRFCA)}}</ref>
 
वैसरायः सर् जान् लारेन्स् इत्येषः पर्वतश्रेणीनां प्रत्यकं स्तरम् अपि रक्षकसेनायाः केन्द्राणि कर्तुमैच्छत् । पर्वतधूमशकटमार्गः इति नाम्ना प्रस्तावं कृत्वा आराष्ट्रं भौगोलिकतया सांस्कृतिकतया च समृद्धं रेल्निस्थानकानां निर्माणम् आङ्ग्लानाम् आशयः आसीत् । तेन चिन्तनानुगुणं ते समग्रदेशं सञ्चार्य शिम्ला, हिमालयस्य पर्वतश्रेण्यः,दार्जिलिङ्ग्, नीलगिरिः, मेथेरान्गिरिः, काङ्ग्राकन्दरः इत्यादीनि स्थानानि चितवन्तः । <ref name="Kholi" /><ref name="Kunwar">{{Cite web|url=httphttps://webcachearchive.googleusercontent.comis/20121202220554/search?q=cache:FPuQF0dvK8oJ:nvonews.com/2009/08/14/mountain-railways-of-india-%E2%80%93-chugging-and-romancing-the-hills/+mountain+railways+of+india&cd=37&hl=en&ct=clnk&gl=in|title= Mountain Railways of India – Chugging and romancing the hills|accessdate=2010-02-20}}</ref><ref name="Srinivasan">{{Cite book|last=Srinivasan|first=Rupa|coauthors=Manish Tiwari and Sandeep Silas|title= Our Indian Railway: themes in India's Railway history|pages=xxxiv-xxxv|accessdate=2010-02-21|url=http://books.google.co.in/books?id=O2-eHnajWxIC&pg=PR34&dq=mountain+railways+of+india&lr=&cd=78#v=onepage&q=mountain%20railways%20of%20india&f=false|publisher= Foundation Books|year= 2006|isbn=8175963301}}</ref>
 
मनमोहकपर्वतभूप्रदेशेषु सञ्चारार्थं सर्वप्रथमप्रयत्नः दार्जिलिङ्ग् हिमालययोः धूमशकटमार्गनिर्माणेन क्रि.श. १८७८तमे वर्षे सफलः अभवत् । पश्चात् तदानीन्तस्य पूर्वबङ्गालस्य रेल्वेविभागस्य फ्राक्लिन् प्रेस्टेज़् इति कश्चित् लिगुरितः दार्जिलिङ्ग् पर्यन्तं पर्वतप्रदेस्य शकटयानमार्गस्य मानचित्रं स्वीकृत्य रेल्मार्गनिर्माणस्य प्रकल्पम् आरब्धवान् । क्रि.श. १८८१तमवर्षे दार्जिलिङ्ग् पर्यन्तं लोहमार्गः निर्मितः एव ।<ref name="Kholi" /><ref name="Kunwar" /> अग्रिमः प्रकल्पः दक्षिणभारतस्य नीलगिरिपर्वतप्रदेशस्य रेल्मार्गनिर्माणम् । अनेन सम्बद्धं प्रस्तावं क्रि.श. १८५४तमवर्षे प्रेषितवन् । अस्य निर्माणकार्यं क्रि.श. १८९४तमवर्षे आरब्धं किन्तु क्रि.शा. १९०८तमवर्षपर्यन्तमपि न समाप्तं यतः पर्वतस्य भूप्रदेशः अभेद्यः आसीत् । बहुदूरस्य पर्वतप्रदेशस्य परस्परं सम्पर्कं कल्पयितुं ९६कि.मी. दूरस्य काकाशिमलाधूमशकटयानस्य सम्पर्कनिर्माणं क्रि.श. १८९८तमवर्षे आरब्धम् । एतत् क्रि.श. १९०३तमवर्षे आङ्ग्लवैसरायेन लार्ड् कर्जन् इत्यनेन उद्घाटितम् । मेथेरान् [[मुम्बै]]नगरतः १०८कि.मी.दूरे विद्यमानं गिरिधाम । चित्रसदृशेषु काङ्ग्राकन्दरेषु क्रि.श. १९२९तमे वर्षे लोहशलाकामार्गः निर्मितः ।
"https://sa.wikipedia.org/wiki/भारतस्य_पर्वतीयरेल्-मार्गाः" इत्यस्माद् प्रतिप्राप्तम्