"कल्पना चावला" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८:
१९६१ तमस्य वर्षेस्य जुलाई-मासस्य प्रथमे (१) दिनाङ्के [[हरियाणाराज्य]]<nowiki/>स्य करनाल-ग्रामे तस्याः जन्म अभवत् । तस्याः पितुः नाम बनारसीलाल चावला, मातुः नाम सजोगता खरबन्दा इति च आसीत् । बनारसीलाल इत्यस्य चतस्रः सन्ततिः आसन् । कल्पना, सुनीता, दिया इति तिस्रः पुत्र्यः आसन् । सञ्जयः इति एकः पुत्रः आसीत् । चावला-परिवारः सुखी, सम्पन्नः च आसीत् । पिता बनारसीलाल इत्यस्य चक्राणाम् (टायर्) उत्पादनस्य उद्योगः आसीत् । सः तस्मात् बहुधनम् अर्जति स्म । १९४७ तमे वर्षे [[भारत]]<nowiki/>स्य विभाजनम् अभवत् । तदनन्तरम् अपि चावला-परिवारः भारतस्य करनाल-ग्रामे निवासम् अकरोत् । बनारसीलाल [[हिन्दु]]<nowiki/>-मुस्लिम्-जनानां अतिकठोरैः साम्प्रदायिकहिंसादिभिः प्रसङ्गैः अनुभवं प्राप्तवान् । अतः अन्यासां समस्यानां मार्गस्य अन्वेषणं तस्य कृते सरलम् आसीत् ।
== बाल्यं शिक्षणं च ==
 
कल्पनायाः जन्मसमये परिवारस्य आर्थिकी स्थितिः समीचीना आसीत् । करनाल-ग्रामे बालिकाभ्यः [[शिक्षा]]<nowiki/>प्रदानं स्वल्पम् एव भवति स्म । 50 विद्यार्थिनां कक्षे द्वे वा तिस्रः एव बालिकाः भवन्ति स्म । कल्पनायाः वर्गेऽपि तथैव आसीत् । पिता तां पठितुं गृहस्य समीपवर्तिन्यां टागोर बालनिकेतन नामिकायां शालायां प्रैषयत् । इयं [[शाला]] गृहस्य निकटा आसीत् इति कारणं विहाय तस्याः शालायाः अपरं किमपि वैशिष्ट्यं नासीत् । तथापि कल्पना वर्गे १ तः ५ क्रमेषु एकं क्रमं प्राप्नोति स्म । कल्पना प्रारम्भादेव कल्पनाशीला आसीत् । चित्रस्य वर्गे विमानस्य चित्रस्य चित्रणं तस्यै रोचते स्म । तस्याः बाल्यकालस्य मित्रं डेझी चावला इति आसीत् । उभयोः स्वभावे असमानतायां सत्यामपि प्रगाढा मित्रता आसीत् । कल्पनायाः [[अमेरिका]]<nowiki/>-देशे गमनं यावत् तयोः मित्रता आसीत् । करनाल-ग्रामे स्वस्याः प्रारम्भिकम् अध्ययनं समाप्य सा [[पञ्जाबराज्य]]<nowiki/>स्य एन्जिनियरिङ्ग् महाविद्यालये एरोस्पेस्-विषये पठनं कर्तुम् अविचारयत् । अयं महाविद्यालयः [[चण्डीगढ]]<nowiki/>-नगरे अस्ति । [[चण्डीगढ]]<nowiki/>-नगरं [[गुजरातराज्य]]<nowiki/>स्य [[गांधीनगर]]<nowiki/>वत् आयोजनपूर्वकं निर्मितं सेक्टर् इत्येतेषु विभाजितं सुन्दरं नगरम् अस्ति । तत्र १४ महाविद्यालयाः सन्ति । तत्र चिकित्सासंशोधनस्य महत्त्वपूर्णं केन्द्रम् अस्ति । एभिः कारणैः पठितुम् इच्छुकेभ्यः छात्रवासस्य व्यवस्था समीचीना अस्ति । यदा कल्पना स्वज्येष्ठभ्रात्रा सञ्जयेन सह [[चण्डीगढ]]<nowiki/>-नगरं गता तदा महाविद्यालयस्य नगरस्य च वातावरणं तस्यै अरोचत । तदानीं पठनस्य एतादृशं मुक्तं वातावरणम् अन्यत्र कुत्रापि न प्राप्यते स्म ।
== कठिनस्य एरोनॉटिकल् विषयस्य चयनम् ==
Line २८ ⟶ २९:
विकासाय मुक्तवातावरणस्य यादृशी परिस्थितिः [[यूरोप]]<nowiki/>-खण्डे [[अमेरिका]]<nowiki/>-देशे च अस्ति तादृशी भारते नास्ति । साम्प्रतमपि वयं मानवविकासस्य प्राथमिके विभागे एव स्मः । [[भारत]]<nowiki/>स्य प्रतिभायुक्ताः विभूतयः [[इङ्ग्लेण्ड]]<nowiki/>-देशे [[अमेरिका]]<nowiki/>-देशे एव विकसिताः । इतिहासः तस्य साक्षी अस्ति । कल्पनायाः विषयेऽपि तथैव अस्ति । १९८२ तमे वर्षे कल्पना [[अमेरिका]]<nowiki/>-देशं गतवती । तत्र वर्षद्वयम् अधीत्य १९८६ तमे वर्षे टेक्सास् विश्वविद्यालयात् एरोस्पेस् विषये विज्ञाननिष्णातात्वेन अनुस्नातकस्य (मास्टर्स्) पदवीम् अयात् । १९८८ तमे वर्षे [[कोलराडो विश्वविद्यालयः|कोलराडो विश्वविद्यालया]]<nowiki/>त् एरोस्पेस् विषये पी.एच्.डी. इति पदवीं च प्राप्तवती । कल्पनया न केवलं शाब्दे (थियरी) अपि तु विमानोड्डयनादिषु आनुभविकेषु कार्येषु अपि निपुणता प्राप्ता । सा शरीरेण मनसा च दृढा आसीत् । सामान्यतया महिलाः अधिक- एन्जिन्-युक्तानि विमानानि न चालयन्ति । किन्तु कल्पना विमानानि, ग्लाइडर्स्, व्यवसायिकविमानानि च चालयितुम् अनुज्ञापत्रमपि (license) प्राप्तवती ।
== नासा-संस्थायां प्रवेशः ==
[[चित्रम्:Kalpana workingSTS-107.jpg|200px|right|thumb| कार्यरता कल्पना चावला]]
नासा [[अमेरिका]]<nowiki/>-देशस्य अवकाशसंशोधनस्य संस्था अस्ति । तस्याः सम्पूर्णं नाम नॅशनल् एरोनॉटिक्स् ऍण्ड् स्पेस् ऍड्मिनिस्ट्रेशन् इत्यस्ति । [[नासा]]<nowiki/>-संस्थया सह कल्पनायाः सम्पर्कः व्यवहारश्च आसीत् । अतः सा १९८८ तमे वर्षे [[नासा]] एइम्स् संशोधनकेन्द्रे वृत्तिं प्राप्तवती । उपाध्यक्षपदे कार्यरतायाः कल्पनायाः कार्यशैली सर्वेभ्यः रुचिकरा अभवत् । १९९५ तमे वर्षे १५ अन्तरिक्षयात्रिणां गणे कल्पनायाः चयनम् अभवत् । जॉन्सन् स्पेस् सेन्टर् इत्यत्र अन्तरिक्षप्रवासाय तया वर्षद्वयं दृढं प्रशिक्षणं प्राप्तम् । अन्तरिक्षस्य तकनिकी-विषयाणां निष्णातात्वेन कल्पनायाः चयनम् अभवत् । अतः रोबोटिक् उपकरणानां विकासः, अवकाशयानस्य (स्पेस् शटल्) नियन्त्रणार्थं सोफ्टवेर्-विकासः, शटल् एवियोनिक्स् इत्यस्य प्रयोगशालायां परीक्षणम् इत्यादीनां निर्वहणं तस्याः मुख्यं दायित्वम् आसीत् ।
== अन्तरिक्षे उड्डयनम् ==
"https://sa.wikipedia.org/wiki/कल्पना_चावला" इत्यस्माद् प्रतिप्राप्तम्