"स्वच्छभारताभियानम्" इत्यस्य संस्करणे भेदः

सम्बद्धाः लेखाः
चित्राणि
पङ्क्तिः १३:
 
== इतिहासः ==
[[चित्रम्:PM Modi launches the Swachh Bharat Abhiyaan (1).jpg|thumb|right|350px|'''स्वच्छभारताभिनयानस्य घोषणां कुर्वन् श्री[[नरेन्द्र मोदी]]''']]
 
२०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८/२०१४) दिनाङ्के [[स्वतन्त्रतादिन]]पर्वणि [[भारतम्|भारतगणराज्यस्य]] [[प्रधानमन्त्रि]]णा [[नरेन्द्र मोदी]]-महाभागेन उद्घोषणा कृता आसीत् यत्, स्वच्छभारताभियानं २/१० दिनाङ्कात् [[महात्मजयन्ती]]पर्वदिनात् आरप्सयते इति । २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१४) दिनाङ्के [[नवदेहली]]-महानगरस्थे राजघाटे [[प्रधानमन्त्री]] [[नरेन्द्र मोदी]] [[भारतं]] न्यवेदयत्, "सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु" इति । तस्मिन् दिने स्वयं [[प्रधानमन्त्री]] स्वहस्ते मार्जनीं धृत्वा [[नवदेहली]]-महानगरस्थे मन्दिरमार्गे स्वच्छताकार्यं प्रारभत ।
 
== अभियानस्य उद्देश्यम् ==
[[चित्रम्:PM Modi launches the Swachh Bharat Abhiyaan (2).jpg|thumb|right|350px|'''स्वच्छभारताय लालायिताः भारतीयाः''']]
[[File:ManishaKoirala13.jpg|thumb|right|200px|'''जनसामान्यं स्वच्छतायै प्रेरयन्ती अभिनेत्री मनिषा कोइराला''']]
वर्तमान[[भारत]]देशः आधुनिकः देशः इति आविश्वं चर्चा अस्ति । सः देशः [[चन्द्रयानं]] निर्माय चन्द्रारोहणं कृतवान्, परन्तु अद्यापि तस्य देशस्य नागरिकाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति । यत्र कुत्रापि अवकरं प्रक्षिपन्ति । ते यत्र कुत्रापि ष्ठीवन्ति (थूँकते हैं) । एतादृशैः वाक्यैः देशाभिमानिनः बहुपीडाम् अनुभवन्ति । वर्तमानभारते ७२% जनाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://hindi.mapsofindia.com/government-of-india/swachh-bharat-abhiyan.html|work=जनहिताय उद्घोषणा|publisher= hindi.mapsofindia.com|accessdate=२८/१२/२०१४}}</ref> । तेषु अधिकाः जनाः ग्रामवासिनः सन्ति । वृक्षावरणेषु, कृषिक्षेत्रेषु, मार्गस्य समीपं च अधिकाः जनाः शौचं कुर्वन्ति । तेन अनेकाः समस्याः समुत्पद्यन्ते । बालकानाम् अकालमृत्युः, सङ्क्रमणयुक्तानां रोगाणां विस्तारः, शौचस्थानं जनविहीनम् एव भवति, अतः महिलानां [[बलात्कार]]स्य घटनाः अधिकाः भवन्ति इत्यादयः अनेकाः समस्याः सन्ति <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://hindi.mapsofindia.com/government-of-india/swachh-bharat-abhiyan.html|work=जनहिताय उद्घोषणा|publisher= hindi.mapsofindia.com|accessdate=२८/१२/२०१४}}</ref> । तासां समस्यानां निवारणं भवेत्, अतः स्वच्छभारताभियानस्य परिकल्पना समुद्भूता । उक्तस्य उद्देश्यस्य पूर्त्यै एव अभियानस्यास्य आरम्भः अभवत् । परन्तु अनेन सह अन्यानि कारणानि अपि सम्मिलितानि आसन् ।
 
२०१९ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१९) दिनाङ्के [[मोहनदास करमचन्द गान्धी|महात्मनः]] १५० तमा जन्मजयन्ती अस्ति । यतो हि [[मोहनदास करमचन्द गान्धी|महात्मनः]] प्रियतमेषु कार्येषु स्वच्छताकार्यम् अपि अन्यतमम् आसीत् । अतः तस्य १५० तमायाः जन्मशताब्द्याः दिने [[मोहनदास करमचन्द गान्धी|महात्मना]] ईप्सितं स्वच्छं भारतं तस्मै समर्पयामः इति अस्य अभियानस्य अपरः उद्देशः वर्तते । एतत् अभियानं पञ्चवर्षात्मकम् अस्ति । स्वच्छभारताभियानं [[भारतम्|भारतगणराज्य]]स्य सर्वकारेण सञ्चालितम् अभियानम् अस्ति । एतेषु पञ्चवर्षेषु ४,०४१ नगराणां वीथिकाः, मार्गान्, क्षेत्राणि च स्वच्छं कर्तुम् तस्य अभियानस्य उद्घोषः अभवत् <ref>{{cite web| title= स्वच्छभारताभियानम् १|url= https://www.youtube.com/watch?v=HmtxA_iXvbY|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=२८/१२/२०१४}}</ref> ।
[[चित्रम्:PM Modi participates in Shramdaan as part of Swachhta Abhiyan at Assi Ghat, Varanasi.jpg|thumb|right|350px|'''[[शिव]]नगर्याः [[काशी|काश्याः]] [[अस्सिघट्टः|अस्सिघट्टे]] स्वच्छताकार्ये रतः श्री[[नरेन्द्र मोदी]]''' ]]
 
[[लाल बहादूर शास्त्री]]-महोदयेन अस्मभ्यं मन्त्रः दत्तः आसीत् यत्, 'जय जवान, जय किसान' इति । तस्य आह्वानेन आभारतं जनाः कृषिक्रान्तिम् अकुर्वन् । यदा तेन [[भारत]]स्य आह्वानं कृतम् आसीत्, तदा [[भारतम्|भारतगणराज्य]]स्य सामान्यात् अतिसामान्यः जनः अपि तस्य उद्घोषं सफलीकर्तुं प्रयासम् अकरोत् । तथैव एतस्य अभियानस्य कृते अपि भवतु इति । यदि तस्मिन् काले [[भारतम्]] अकरोत्, तर्हि अद्यापि करिष्यति इत्यपि अन्यतमः उद्देशः <ref>{{cite web| title= स्वच्छभारताभियानम् १|url= https://www.youtube.com/watch?v=HmtxA_iXvbY|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=२८/१२/२०१४}}</ref> ।
 
पङ्क्तिः ९५:
 
==== विद्यालयीयप्रवृत्तिषु स्वच्छताभियानम् ====
[[File:ManishaKoirala13.jpg|thumb|right|200px|'''जनसामान्यं स्वच्छतायै प्रेरयन्ती अभिनेत्री मनिषा कोइराला''']]
 
१. विद्यालयेषु कक्षायाः समये विद्यार्थिभिः सह स्वच्छतायाः विषये चर्चा भवेत् । स्वच्छतायाः विभिन्नानां विषयाणां [[मोहनदास करमचन्द गान्धी|महात्मनः]] विचारैः सह सम्बन्धं संस्थाप्य विद्यार्थिषु स्वच्छतायै जागरूकता उद्भावनीया ।
 
पङ्क्तिः १५९:
 
२०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१४) दिनाङ्के [[राष्ट्रपतिभवन|राष्ट्रपतिभवने]] 'स्वच्छ भारत रन्' इत्याख्यः कार्यक्रमः अभवत् । तस्य कार्यक्रमस्य आयोजनं [[भारतम्|भारतगणराज्य]]स्य [[राष्ट्रपति]]ना कृतम् आसीत् । तस्मिन् कार्यक्रमे १५०० जनाः भागम् अवहन् । तस्याः धावनप्रतियोगितायाः आरम्भः राष्ट्रपतेः निर्देशानन्तरम् अभवत् । तस्मिन् कार्यक्रमे उच्चपदाधिकारिणः सपरिवारं भागम् अवहन् <ref>{{cite web| title= स्वच्छभारताभियानम् |url=http://timesofindia.indiatimes.com/india/Swachh-Bharat-Run-organized-at-Rashtrapati-Bhavan/articleshow/44300509.cms|work= timesofindia|publisher=indiatimes|accessdate=३०/१२/२०१४}}</ref>}} ।
 
== चित्रवीथिका ==
 
<gallery>
Admiral RK Dhowan during Swachh Bharat Abhiyan activities undertaken at New Delhi (3).JPG
Swachh Jal Swasth Jan.jpg
PMO officials and staff undertaking shramdan during special cleanliness drive in PMO.jpg
Swach Bharat Abhiyana in Civil Court premises, Rayagada.JPG
Ratnesh pandey.JPG
PM reviews preparations for launch of Mission Swachh Bharat (15314130751).jpg
Admiral RK Dhowan, CNS administering the "Swachhta Shapath" to Naval Officers and Sailors at New Delhi.JPG
</gallery>
 
== सम्बद्धाः लेखाः ==
"https://sa.wikipedia.org/wiki/स्वच्छभारताभियानम्" इत्यस्माद् प्रतिप्राप्तम्