"इन्दिरा गान्धी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ५७:
सा [[भारतम्|भारतस्य]] प्रधानमन्त्रिणी आसीत् । भारतदेशे सा एका एव महिला वित्‍तमन्त्रालये प्रमुखमन्त्रिपदं भूषितवती । तस्‍या: शासनकाले भारतदेशे प्रथमम् [[अण्वस्‍त्रम्|अण्वस्‍त्रपरीक्षणं]] कृतम् ।
इयं १९६६ तमात् वर्षात् १९७७ तमवर्षपर्यन्तं त्रिवारं भारतस्य प्रधानमन्त्रिणी आसीत् । तदनन्तरं १९८० तम वर्षतः १९८४ तस्याः हत्याकाण्डपर्यन्तं मन्त्री आसीत् । सा आहत्य १५ वर्षकालं प्रधानमन्त्रीस्थानं समलङ्करोत् । सा भारतस्य प्रथमा महिला प्रधानमन्त्री आसीत् इदानीमपि तत्स्थानं रिकतमेवास्ति । एतस्याः मोहनदासगान्धीमहाभागस्य च सम्बन्धः एव नास्ति ।<br />
एषा प्रभावीनेहरुकुले जाता प्रबलराजनैतिकवातावरणे वर्धिता च । [[मोतिलालनेहरु]] अस्याः पितामहः । भारतीय स्वातन्त्र्यसङ्ग्रामस्य प्रमुखः आसीत् सः । स्वतन्त्रभारतस्य प्रधानमन्त्री [[जवाहरलाल नेह्रू|जवहरलालनेहरु]] एव अस्याः पिता । १९४१ तमे वर्षे [[आक्सफर्ड]]तःआक्सफर्डतः]].<ref>{{cite web|url=http://www.ox.ac.uk/media/news_releases_for_journalists/100422_1.html |title=Exhibit celebrates 120 years of South Asians at Oxford |publisher=University of Oxford |date=22 April 2010 |accessdate=24 December 2012}}</ref> भारतं प्रति आगत्य एषा [[भारतीयस्वातन्त्रसंग्रामः|भारतीयस्वातन्त्रसंग्रामे]] पात्रम् ऊढवती । १९५० तमे वर्षे प्रथमप्रधानमन्त्री तस्य पिता यदा आसीत् तदा एषा तस्य वैयक्तिकसहायिका भूत्वा सेवां कृतवती । १९६४ तमे वर्षे तस्याः पिता दिवङ्गतः । भारतस्य राष्ट्रपतिना एतस्याः राज्यसभासदस्यत्वं प्राप्तम् । ततः वार्ताप्रसारमन्त्रिपदवीं [[लालबहादूरशास्त्री]]सचिवालये प्राप्तम् ।<br />सा सहस्राब्दे: महिला(Woman of the Millennium) इति बी बी सी संस्थया प्रशस्तिः दत्ता आसीत् <ref name="BBC">{{cite news|url=http://news.bbc.co.uk/2/hi/543743.stm |title=Indira Gandhi 'greatest woman' |publisher=BBC News |date=1 December 1999 |accessdate=31 July 2013}}</ref>।
शास्त्रिमहोदयस्य निधनं तु अनिरीक्षितमासीत् । ततः इन्दिरागान्धी प्रधानमन्त्री अभूत् । एनाम् एतत्पदव्यां स्थापयितुं काङ्ग्रेसपक्षस्य अध्यक्षः कापरमहाभागस्य एव मुख्यप्रात्रमस्ति । सा जनानुरागी भूत्वा सिद्धान्तस्थापनं कृतवती । सा निर्वाचने विजयं प्राप्य स्वसामर्थ्यं प्रदर्शितवती । सा कृषिकार्यार्थं कृषिकान् प्रोत्साहितवती । १९७१ तमे वर्षे जाते भारतपाकिस्थानयोः युद्धे भारतेन निर्णायकः विजयः प्राप्तः । तदा इन्दिरा प्रधानी आसीत् । परन्तु तस्मिन् सन्दर्भे भारते असुरक्षितता सर्वत्र कोलाहलमयवातावरणं च आसीत् । तदा सा देशे आपत्कालिकीं परिस्थितिं धोषितवती । दीर्धकालीनं निरङ्कुशप्रभुत्वम् आसीत् तस्याः । अतः पूर्वं कदापि अपजयमेव न दृष्टवता कांग्रेस्पक्षेण १९७७ तमे वर्षे सार्वत्रिकनिर्वाचने पराभवः प्राप्तः ।<br />
पुनः १९८० तमे वर्षे काङ्ग्रेस्पक्षेण अधिकारः प्राप्रः । पुनः इन्दिरा एव आगतवती॥ १९८४ तमे वर्षे जून्मासे नेक्स्लेट्स् जनानां बन्धनं कर्तुम् इन्दिरा सिक्कजनानां पवित्रं स्थलं स्वर्णमन्दिरं प्रवेष्टुम् आदिदेश । एतत् सिक्कजनानां महतः क्रोधस्य कारणं जातम् । तस्मात् १९८४ तमे वर्षे अक्टोबर् मासस्य ३१ तमे दिनाङ्के तस्याः हननं कृतम् ।
"https://sa.wikipedia.org/wiki/इन्दिरा_गान्धी" इत्यस्माद् प्रतिप्राप्तम्