"बुद्धजयन्ती" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २:
[[File:Buddha's statue near Belum Caves Andhra Pradesh India.jpg|thumb|right|बुद्धस्य स्तूपः,आन्ध्रप्रदेशः]]
जन्मदिनाचरणं ‘जयन्ती’ शब्देन निर्दिश्यते । यथा -‘गान्धिजयन्ती’ या च अक्टोबर्मासस्य द्वितीये दिनाङ्के आचर्यते, यस्मिन च दिने गान्धिवेयस्य जन्म जातम् । बुद्धजयन्ती तु विशिष्टा ।
महात्मनः [[गौतमबुद्ध]]स्यबुद्धस्य जीवनस्य तिस्त्रः प्रमुखाः घटनाः तस्मिन एव दिने घटिताः । प्रथमा घटना तदीनं जन्म् क्रि.पू.६ शतके वैशाखमासस्य पूर्णिमादिने कपिलवस्तुराज्ये सिद्धार्थरुपेण सः जन्म प्राप्नोत् ।
स्व्स्य जीवनस्य नवविंशतिवर्षपर्यन्तम् अपि सः न जानाति स्म यत् सर्वेषां जीवने अस्वास्थ्यवेदना-कष्ट-मरणादयः सम्भवन्ति एव इति । पुत्रेण एतत्सर्वां यथा न ज्ञायेत् तथा पालनव्यवस्थां कल्पितवान् आसीत् तस्य पिता राजाअ शुद्धोअनः । कदाचित् रथेन नगरमर्गेण गच्छन् सिद्धार्थः ऐदम्प्राथम्येन जनानां रोगमरणादिकं प्रत्यक्षम् अपश्यत् । एतत् तस्य जीवनमार्गम् एव पर्यवर्तयत् । जीवनस्य अर्थष्स्य अन्वेष्णे तस्य मनः प्रवृत्तं जातम् ।
कस्याञ्चित् रात्रौ सः प्रासादं परित्यज्य निर्गतः । अष्टौ वर्षाणि सः सर्वत्र भ्रमणम् अकरोत् । अन्ते बोधिगयक्षेत्रे बोधिवृक्षस्य अधः उपविश्य ध्यानं कुर्वन् सः ज्ञानबोधं प्राप्तवान् । तच्च दिनम् आसीत् वैशाखपूर्णिमा एव । तस्मात दिनात् सः आत्माना पाप्तस्य ज्ञानस्य प्रसाराय पुनरपि देशसञ्चारम् आरब्धवान् । अशीतितमे वयसि सः निर्वाणं प्राप्तवान् । तच्च दिनम् अपि आसीत् वैशाखपूर्णिमा एव । अतः एव वैशाखपूर्णिमा ‘बुद्धपूर्णिमा’ इत्यपि ख्याता अस्ति ।
"https://sa.wikipedia.org/wiki/बुद्धजयन्ती" इत्यस्माद् प्रतिप्राप्तम्