"पर्यावरण-संरक्षणम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: + {{Interwiki conflict}}
No edit summary
पङ्क्तिः १:
[[Image:Consolation-Lake-Szmurlo.jpg|thumb|upright|200px]]
सम्प्रति पर्यावरणं पूर्णम् असन्तुलितं जातमस्ति । अस्य संरक्षणम् आवश्यकमस्ति । परं किम् एकवारं यदि पर्यावरणं सुरक्षितं भविष्यति तर्हि सर्वाषां पर्यावरण-समस्यानां समाधानं भविष्यति इति चेन्न । भवन्तः पर्यावरणसमस्येति प्रकरणे पठितवन्तः यत् सर्वप्रमुखा समस्या अस्ति सामाजिकी,नैतिकी, प्राकृतिकी, जनसंख्या च । समस्याः एताः तदैव समधिगताः भविष्यन्ति यदा निरन्तर-प्रयासः भविष्यति । अतः आवश्यकं भवति यत् पर्यावरणस्य शिक्षा सर्वेभ्यः सामाजिकेभ्यः बाल- युवा-वृध्देभ्यश्च दातव्या । अस्याः शिक्षायाः प्रसारः विविधेषु अभिकरणेषु एव आधारितः अस्ति । अतः अत्र तेषामभिकारणानां विषये चिन्ततंचिन्तितं वर्तते ।
==बालेभ्यः==
गृहस्य भूमिका – बालकानां प्रारम्भिकी शिक्षा गृहेषु एव भवति । अपि च पितरौ एव तान् पाठयतः । अर्थात् एवमपि कथयितुं शक्यते यत् गृहे निवस्यमानाः सर्वे ज्येष्ठाः बालकानामध्यापकाः भवन्ति । ज्येष्ठानां व्यवहारः एव तेभ्यः पाठ्यक्रमः भवति । आदर्शव्यवहार-संहितायाः निर्माणं गृहे एव भवति । उदाहरणं तु गृहेषु द्र्ष्टुं शक्यते यत् सभ्य-शिक्षितपरिवाराणां बालकाः सदाचरणं कुर्वन्ति तथा निम्नपरिवाराणां बालकाः एतन्न कुर्वन्ति । गृहे यदि ज्येष्ठाः पर्यावरणं न प्रदूषयन्ति तर्हि तेषां कनिष्ठाः अपि तथा न कुर्वन्ति । अर्थात् यदि गृहे ज्येष्ठाः पर्यावरणप्रदूषणनियन्त्रणाय एव सर्वाणि कार्याणि कुर्वन्ति, यथा –संसाधनानां समुचितः उपयोगः, जल –भू-वायु-ध्वनीनां वा प्रदूषणनियन्त्रणं तर्हि बालकः तथा एव करिष्यन्ति । अतः पर्यावरण- संरक्षणं तदैव सुनिश्चितं भविष्यति यदा गृहे स्थिताः जनाः पर्यावरण- संरक्षणे तत्पराः भविष्यन्ति, प्रारम्भतः एव वालकेभ्यः पर्यावरणस्य, प्रदूषणस्य, नियन्त्रणस्य ज्ञानं प्रदास्यन्ति । अतः गृहं भवति मुख्यमभिकरणं येनपर्यावरणं संरक्षितं भविष्यति ।
"https://sa.wikipedia.org/wiki/पर्यावरण-संरक्षणम्" इत्यस्माद् प्रतिप्राप्तम्