"छान्दोग्योपनिषत्" इत्यस्य संस्करणे भेदः

==परिचयः==
'''छान्दोग्योपनिषत्''', दशसु [[उपनिषदः|प्रमुखोपनिषत्सु]] अन्यतमा अस्ति '''छान्दोग्योपनिषत्''' । इयं हयग्रीवरूपीभगवतः मुखात् आविर्भूतानि पवित्रवाक्यानि । सर्वासाम् [[उपनिषद्|उपनिषदां]] मुख्याभिमानिनी [[लक्ष्मीः|लक्ष्मी]]देवी स्वस्य पतिं [[विष्णुः|श्रीहरि]]म् अत्र '''ओमित्यक्षरमुद्गीथमुपासीत''' इत्येवम्प्रकारेण स्तुतवती अस्ति इति आचार्याः उपोद्घाते उल्लिखितवन्तः सन्ति ।
:हयग्रीवोद्गीतवाक्यै रमादेवी रमापतिम् ।
:ओमित्येतन्मुखैर्देवमस्तुवत् सामवेदगैः ॥ इति महासंहितायाम् । (छा उ भाष्यम् १-१-१)
इयम् उपनिषत् [[सामवेदः|सामवेदस्य]] छान्दोग्यब्राह्मणस्य कश्चन भागः वर्तते । इयं [[गद्यकाव्यम्|गद्यरूपेण]] वर्तते इत्यतः अत्र [[छन्दः]] नास्ति । अस्याः उपनिषदः प्रथमद्रष्टा हयग्रीवभगवान् अस्याः प्रधानऋषिः । रमादेवी द्वितीया ऋषिः । अनन्तगुणपरिपूर्णः, शेषशायी रमापतिः अस्याः प्रतिपाद्यदेवता ।
:हयग्रीवमुखोद्गीर्णगीर्भिर्देवी रमापतिम् ।
:अस्तुवद् विस्तृतगुणं भोगिप्रस्तरशायिनम् ॥ (छा उ भाष्यम् १-१-१)
दशसु प्रमुखोपनिषत्सु छान्दोग्योपनिषदः वैशिष्ट्यं वर्तते । अस्याः उपनिषदः भाष्यं [[शङ्कराचार्यः|श्रीशङ्कराचार्यैः]] [[मध्वाचार्यः|श्रीमध्वाचारै]]श्च लिखितम् अस्ति ।
 
==शान्तिमन्त्रः==
::'''ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
२,६५६

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/292240" इत्यस्माद् प्रतिप्राप्तम्