"पुदुच्चेरी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४९:
पाण्डिचेरी सागरतीरे स्थितं किञ्चन सुन्दरनगर अस्ति । पर्वतप्रदेशाः अत्र न सन्ति । विस्तारः २९० चतुरस्र कि.मी.मितः । इतिहासानुसारं द्वितीये शतके रोमदेशीयाः अत्र वाणिज्यव्यवहारेषु मग्नाः आसन् । अनन्तरं युरोपियन् जनाः आगताः क्रिस्ताब्दे १६७३ तमे वर्षे फ्रान्सदेशीयाः अत्रत्यम् अधिकारं प्राप्तवन्तः ।
नगरनिर्माणम् उत्तमरीत्या कृतमस्ति । उत्तरदक्षिणतः पूर्वपरिचयतां च सरल मार्गाः सन्ति । फ्रान्सदेशीयाः श्वेतनगरं कृष्णनगरमिति भागद्वयं कृतवन्तः ।यत्र फ्रेञ्चजनाः आसन् सः भागः श्वेतनगरम् इति प्रसिद्धः आसीत् । मार्गाणां नामानि अपि रोमन् शैल्या रोमेन्-रोलामार्गः , रूसप्रान् , रोविक्टर् , सीमो- नेल् इत्यादीनि सन्ति । अत्रत्याः आरक्षकाः फ्रान्सदेशीयसैनिकाः इव समवस्त्रं धरन्ति। गृहाणां नामनि अपि फ्रेञ्चशैल्या सन्ति ।
प्रमुखवाणिज्यकेन्द्रणि गान्धिमार्गः , नेहरूमार्गः इत्यादयः। नगरे फ्रान्सस्मारकाः सन्ति । [[जोन् आफ् आर्क्]] प्रतिमा अस्ति । डूप्लेविग्रहः अस्ति । विल्लेनोय्रे प्रदेशे (कृष्णनगरम्) [[तिरुवळ्ळुवर]] [[अण्णादोरै]] , [[एम् जि रामचन्द्रन्|एम्.जी. आर्]] , कामराजप्रतिमाः सन्ति ।
अत्र ५५विविधभाषाजनाः निवसन्ति । [[आङ्ग्लभाषा]] , [[फ्रेञ्चभाषा]] , [[तमिळ्]] ,[[मलयाळम्|मलयाळं]] , [[तेलुगु]] राज्यभाषाः सन्ति । सर्वमार्गेषु प्रार्थनामन्दिराणि देवालयाः सन्ति । सहस्रवर्षप्राचीनाः ३२ देवालयाः सन्ति । क्रैस्तप्रार्थनामन्दिराणि त्रिशतवर्षं प्राचीनानि सन्ति ।
पाण्डिचेरिनगरे १५०० मीटर् दीर्घः मार्गः प्रोमनेड् स्थाने गच्छति । तत्र नौकानिस्थानं युद्धमेमोमोरियल् राजनिवास् , टौनहाल् इत्यादि सन्ति ।
"https://sa.wikipedia.org/wiki/पुदुच्चेरी" इत्यस्माद् प्रतिप्राप्तम्