"मुत्तुस्वामी दीक्षितः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ५:
|Birth_name = मुत्तुस्वामी
|Alias =
|Born = मार्च् २४, १७७५
|Died = अक्टोबर् २१, १८३५
|Origin = [[आन्ध्रप्रदेशराज्यम्]], [[भारतम्]]
|Genre = [[कर्णाटकसङ्गीतम्|कर्णाटकशास्त्रीयसङ्गीतम्]]
|Occupation = [[कर्णाटकसङ्गीतम्]] [[वाग्गेयकारः]] गुरुः ।
|Years_active =
पङ्क्तिः १५:
}}
 
'''मुत्तुस्वामी दीक्षितः''' (Muthuswami Dikshitar)(March 24, 1775 – October 21, 1835) [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतस्य]] [[सङ्गीतम्|सङ्गीतस्य]] मूर्तित्रयेषुमूर्तित्रये अयम् अन्यतमः। अतिविरलेषु [[रागः|रागेषु]] कृतीः रचितवान् इति अस्य सङ्गीतज्ञेषु विशिष्ठं स्थानमाप्नोति। अस्य सर्वकृतिषु " गुरुगुह " इति नामाङ्कनं भवति ।
 
=='''बाल्यं शिक्षा च'''==
अस्य पूर्वजाः [[तमिळनाडुराज्यम्|तमिळुनाडुराज्यस्य]] जनाः। [[आन्ध्रप्रदेशराज्यस्यआन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशराज्यस्य]] च सीमाप्रदेशस्य विरिञ्चिपुरस्य निवासिनः । अस्य पिता रामस्वामी दीक्षितःमहान् मेधावी सङ्गीतविद्वान् । मुत्तुस्वामिनः जन्म तमिळुनाडुराज्यस्य तिरुवारूरुग्रामे अभवत् । स्वस्य जीवनकाले विविधप्रान्तेषु अटन्, बहुत्र वासं कुर्वन्, अन्ते तिरुनेव्वेलिसमीपस्य एट्टयपुरम् इति स्थाने आश्रयं प्राप्तवान् । अस्य सङ्गीतशैली [[नारिकेलम्|नारिकेलपाकः]] इति वदन्ति । नारिकेलफलमिव अस्य कृतयः दृष्टुं कठोराः इव भासते किन्तु अन्तः रसमाधुर्यं भवति । अत्युत्तमवाग्गेयकारत्वस्य दर्शनम् एतत् ।
 
==दैवकृपा सङ्गीतसिद्धिः च==
अयं मुत्तुस्वामी वैदीश्वरस्य कोयिल् कुमारस्वामेः च अनुग्रहस्य बालः । स्वस्य १६ वयसि वेदाध्ययनम्, [[काव्यालङ्कारः|काव्यालङ्कारम्]], [[ज्योतिश्शास्त्रम्]], वैद्यशास्त्रम्, चाधीतवान्। अयं स्वस्य गुरोः आदेशनुसारं [[गङ्गानदी|गङ्गानद्यां]] स्नात्वा प्रार्थनावसरे अस्य अञ्जलैबद्धजले वीणायाः दर्शनम् अभवत् । अनेन एषः निष्णातवैणिकः अपि अभवत् । वीणया पञ्चदश गमकान् अपि कृतवान् । एषः तिरुत्तणिस्थितस्य षण्मुखदेवस्य अपि आराधकः आसीत् । अस्य प्रसन्नसुब्रह्मण्यस्य कृपा आसीत् । कदाचित् कुमारः वल्लीदेवयानीसमेतः अस्मै दर्शनम् अनुगृहीतवान् ।
 
==कृतिविशेषाः==
पङ्क्तिः २९:
दीक्षितः स्वस्य जीवनान्तं देवताराधकः आसीत् । मृदुहृदयी, करुणालुः च आसीत् । स्वशिष्यस्य उदरवेदानायाः परिहारार्थं तस्य कुण्डल्यां गुरुशनिग्रहयोः बलं वर्धयितुं गुरुशन्योः विषये कृतिं रचितवान् । मन्त्रैः यथा देवताः प्रसन्नाः कर्तुं शक्यते तथैव सङ्गीतेनापि दैवं साक्षात्कर्तुं शक्यते इति शिष्यम् उपदिष्टवान् । गाने लीनस्य शिष्यस्य उदरवेदना उपशान्ता अभवत् । [[ज्योतिश्शास्त्रम्|ज्योतिश्शस्त्रस्य]] विशेषान् सर्वान् मेलयित्वा नवग्रहकृतीः रचयित्वा दीक्षितः मन्त्रोनुष्ठानस्य फलं नादोपासनया एव कर्तुं शक्यते इति साधारं दर्शितवान् । एताः कृतयः सङ्गीतलोके अत्यन्तं श्रेष्टाः कृतयः इति परिगणिताः । श्रीचक्रस्य उपासनायां देव्याः आराधनं विविधरीत्या भवति । अत्रः देव्याः नव आवरणानां पूजा भवति । प्रत्येकम् आवरणपूजायाः विधानं नाम शक्तिः च विभिन्नाः भवन्ति । अत्र नवचक्राणां पूजायाः पश्चात् एव देव्याः अनुग्रहः लभते इति विश्वासः । नवावरणयुक्तस्य श्रीचक्रस्य उपासना एव श्रीविद्या । सा ललिताम्बिका, जगन्माता, पराशक्तिः बिन्दुरूपेण श्रीचक्रे विराजते । असदृश्याम् अत्यन्तम् उत्कृष्टायां नवावरणकृतौ दिक्षितः देव्याः आराधनं सौन्दर्यं च मनोहरतया वर्णितवान् ।
==कैवल्यम्==
आश्वीजबहुलचतुर्दश्यां [[नरकचतुर्दशी]]पर्वदिने दिक्षितःदीक्षितः जगन्मात्रे विशेषपूजां समर्प्य सर्वशिष्यान् आहूय स्वरचितां " नीनाक्षि मुदं देहि " इति कृतिं पूर्वीकल्याणीरागे वीणया वादयन् सर्वान् गातुम् अवदत् । " मीनलोचनि पाशमोचनि " इति पल्लवीं पुनःपुनः गापयन् वीणां त्यक्त्वा तम्बुरस्वरं श्रुण्वन् जगन्मातुः उत्सङ्गे पतितवान् । तत्रैव मुत्तुस्वामीदीक्षितस्य आत्मा मात्रे लीनः अभवत् । [[सङ्गीतम्|सङ्गीतक्षेत्रे]] [[दीपावली|दीपावलीं]] दीक्षितदिनम् इति आचरन्ति ।
 
==बाह्यानुबन्धाः==
"https://sa.wikipedia.org/wiki/मुत्तुस्वामी_दीक्षितः" इत्यस्माद् प्रतिप्राप्तम्