"विन्ध्यपर्वतश्रेणी" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा विन्ध्यः इत्येतत् विन्ध्यपर्वतश्रेणी इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १:
{{Infobox mountain range
[[चित्रम्:Vindhya.jpg|thumb|right|200px|विन्ध्यपर्वतस्य किञ्चन दृश्यम्]]
|name = विन्ध्य
|other_name = विन्ध्याचल्, विन्ध्याः
|native_name = विन्‍ध्य
|etymology = "व्याधः"
|photo = Vindhya.jpg
|photo_caption = विन्ध्य [[मण्डु,मध्यप्रदेशराज्यं]]समीपे
|country = भारतम्
|state = [[मध्यप्रदेशराज्यम्|मध्यप्रदेश्]]
|state1 = [[गुजरातराज्यम्|गुजरात्]]
|state2 = [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेश्]]
|state3 = [[बिहारराज्यम्|बिहार्]]
|border = सात्पुर
|highest = <!-- Note: Amarkantak is not considered a part of the Vindhyas according to the modern definition -->
|highest_location = सद्भवन शिखरः/ कलुमर् शिखर
|elevation_m = ७५२
<!-- Coordinates of the highest point -->
|lat_d = 23 |lat_m = 28 |lat_s = 0 |lat_NS = N
|long_d= 79 |long_m= 44 |long_s= 25 |long_EW = E
|period =
|orogeny =
<!-- Locator map; takes coordinates from "highest point" (and perhaps "range"; need to experiment and then correct this comment) -->
|map = India
|map_caption = Topographic map of India showing the highest point of the Vindhya range
}}
 
भूमे वेधनं कृत्वा [[भारतम्|भारतस्य]] मध्यभागे स्थितः पर्वतः विन्ध्यः। [[भारतम्|भारतस्य]] मध्यभागे [[गुजरातम्|गुजराततः]] [[बिहारम्|बिहारपर्यन्तं]] ७०० मैल् यावत् “विन्ध्य”पर्वतपङ्क्तिः प्रसृता अस्ति । विन्ध्यपर्वतस्य उत्तरभागम् उत्तरपथः इति, दक्षिणभागं दक्षिणपथः इति च वदन्ति । अस्याः पर्वतपङ्क्तेः आरम्भः भवति गुजरातराज्ये । अग्रे मध्यप्रदेशस्य [[सागरमण्डलम्|सागर]]-[[दामोहमण्डलम्|दामोहमण्डलयोः]] उत्तरभागस्य बुन्देलखण्ड तथा रेवासंस्थानद्वारा प्रसृता पङ्क्तिः बिहारे समाप्यते । एवं पश्चिमतः प्रसृतः विन्ध्यः पूर्वतः आगतं सातपुरं [[नर्मदा|नर्मदायाः]] उद्भवस्थाने अमरकण्टके मिलति । सातपुरम् अपि विन्ध्यस्य एव कश्चन भागः ।
==भौगोलिकलक्षणानि==
एषा पर्वतपङ्क्तिः ४०,००० च.मै. प्रदेशम् आक्रम्य स्थिता अस्ति । अस्य शिखराणि माकिं १५००-२००० पादमितम् उन्नतानि । कानिचन शिखराणि ३००० पादमितम् उन्नतानि सन्ति । आम्बापाणिः (२३८५ पादमितम्), दाशरथी (२३४५ पादमितम्), सलखानपूरं (२१८७ पादमितम्), मृगनाथः (२१४८ पादमितम्) च अत्रत्यानि प्रमुखाणि शिखराणि । समग्रा प्रर्वतश्रेणी माल्वपीठभूमेः दक्षिणे, नर्मदानद्याः उत्तरे च एकपङ्क्तौ एव अस्ति । विन्ध्यपर्वते महताप्रमाणेन लभ्यमानाः सिकताश्शिलाः (मरळुगल्लु) भवननिर्माणस्य उत्तमसामग्री अस्ति । साञ्चि-बर्हुत्-प्रदेशेषु बौद्धस्तूपस्य निर्माणार्थं, खजराहोप्रदेशे देवालयस्य निर्माणार्थं, ग्वालियर्-नेर्वाड-चान्देरी-मान्द-प्रदेशेषु दुर्गस्य प्रासादस्य च निर्माणार्थं विन्ध्यपर्वतस्य सुधाशिला महता प्रमाणेन उपयुक्ता । “नागोड” इति स्थानं सुधाशिलार्थं, “पन्ना” इति स्थानं च वज्रार्थं प्रसिद्धम् । पर्वतोयं खनिजसम्पत्तेः आगरः । अयः, म्याङ्गनीस इत्यादीनि अत्र महता प्रमाणेन प्राप्यन्ते ।
==इतिहासः पुराणोल्लेखाः च==
विन्ध्यः भारतस्य अत्यन्तं प्राचीनः प्रर्वतः । कुलपर्वतेषु अन्यतमौ ऋक्षवान्-पारियात्रौ अपि विन्ध्यस्य एव भागभूतौ । अस्मात् पर्वतात् नर्मदा, [[क्षिप्रानदी|क्षिप्रा]], करतोया, वैनगङ्गा, तमसा, दशार्णा, विपाशा, शोणभद्रा, महानदी इत्यादयः नद्यः प्रवहन्ति । अयं पर्वतः उत्तरदक्षिणभारतयोः दक्षिणोत्तरसीमा । अयं विन्ध्यः मध्यभारतस्य आधारः अपि । अयं विन्ध्यपर्वतः उत्तरदिशि अवतरन्निव [[गङ्गा|गङ्गायाः]] उपत्यकापर्यन्तं प्रसृतः ।
विन्ध्यस्य विषये पुराणे एवं काचित् कथा श्रूयते । मेरुपर्वतं परितः [[सूर्यः|सूर्येण]] क्रियमाणं प्रदक्षिणं दृष्टवतः विन्ध्यस्य असूया सञ्जाता । मयापि तादृशः गौरवः प्राप्तव्यः इति इच्छया उपर्युपरि अवर्धत सः । अनन्तरं सूर्यं ’मां परितः अपि प्रदक्षिणं करोतु’ इति प्रार्थयत् । किन्तु सूर्यः तथा नाकरोत् । कुपितः विन्ध्यः सूर्यस्य अवरोधं कुर्वन् इतोपि उन्नतः सञ्जातः । तेन सूर्यस्य चलनस्य अवरोधः सञ्जातः । तदा चिन्ताकुलाः देवताः विन्ध्यस्य गुरुम् [[अगस्त्यः|अगस्त्यम्]] एतां समस्यां परिहर्तुं प्रार्थयन् । तदा देवतानां प्रर्थनानुसारं [[काशी|वाराणसीतः]] दक्षिणदिशि प्रस्थाय विन्ध्यपर्वतं प्राप्नोत् अगस्त्यः । गुरुं दृष्टवान् विन्ध्यः शिरः अवनम्य साष्टाङ्गनमस्कारम् अकरोत् । “मम दक्षिणतः प्रत्यागमनपर्यन्तं भवान् एवमेव भवतु” इति आज्ञाप्य दक्षिणम् अगच्छत् अगस्त्यः । दक्षिणतः अगस्त्यः पुनः न प्रत्यागच्छत् एव । तस्मात् विन्ध्यः अपि [[शिरः]] उन्नेतुं नाशक्नोत् । दक्षिणे [[लोपामुद्रा|लोपामुद्राम्]] ऊढवान् अगस्त्यः । कालान्तरे लोपामुद्रा एव [[कावेरी]] अभवत् । एषा कथा अगस्त्यस्य दिग्विजयं बोधयति । प्राचीन[[तमिळ्|तमिळुभाषायाः]] व्याकरणरचनां कृतवान् अगस्त्यः । सागरम् उल्लङ्घ्य विदेशेषु धर्मप्रसारं कृतवत्सु प्रथमः अगस्त्यः एव ।
 
अस्य पर्वतस्य विन्ध्याचले विन्ध्यावासिन्याः अथवा कौशिकीदेव्याः मन्दिरम् अस्ति । एतत् [[देवीभागवतम्|देवीभागवते]] उक्तेषु १०१ शक्तिपीठेषु अन्यतमम् । अस्मिन् मन्दिरे [[नवरात्रम्|नवरात्रावसरे]] महान् उत्सवः प्रचलति । अत्र [[महाकाली|महाकाल्याः]] अष्टभुजेश्वर्याः च मन्दिरे अपि स्तः । विन्ध्यावसिनी, महाकाली, अष्टभुजेश्वरी च क्रमेण [[लक्ष्मीः|लक्ष्म्याः]] [[पार्वती|पार्वत्याः]] [[सरस्वती|सरस्वत्याः]] च अंशभूताः । [[दुर्गासप्तशती|दुर्गासप्तशत्यनुसारं]] शुम्भ-निशुम्भयोः संहारार्थं पार्वत्याः अंशतः रूपिता शक्तिः एव महाकाली । [[देवकी|देवक्याः]] अष्टमः पुत्रः इति बुध्या [[कृष्णः|कृष्णस्य]] स्थाने सुप्तं शिशुं यदा [[कंसः]] मारयितुम् उद्युक्तः तदा तस्य हस्तात् स्खलित्वा अष्टभुजेश्वरीरूपेण कंसाय दर्शनं दत्तवती सा विन्ध्याचलं प्राविशत् इति । सा विन्ध्यावासिनी एव [[उज्जयिनी|उज्जयिन्याः]] [[विक्रमादित्यः|विक्रमादित्यस्य]] कुलस्वामिनी ।
==प्रवासोध्यमम्==
 
प्रतिवर्षं सहस्रशः यात्रिकाः नर्मदायाः परिक्रमणकाले विन्ध्यस्य अनुपमं सौन्दर्यम् आस्वादयन्तः तस्य उपत्यकायां विद्यमानानि तीर्थक्षेत्राणि सन्दर्शन्ते । विन्ध्यस्य स्मरणमात्रेण [[मालवः|मालवस्य]], [[करूषः|करूषस्य]], [[मेकलः|मेकलस्य]], [[उत्कलः|उत्कलस्य]], [[दशार्णः|दशार्णस्य]], [[भोजः|भोजस्य]], [[कोसलः|कोसलस्य]], त्रैपुरस्य, वैदिषस्य, [[नैषदम्|नैषदस्य]], [[आवन्ती|आवन्त्याः]] पराक्रमिणः राजानः, सुन्दराः प्रासादाः, बलाढ्यानि दुर्गाणि, स्वर्ण-वज्र-खनिः, [[भारतस्य तीर्तक्षेत्राणि|तीर्थक्षेत्राणि]] च नेत्रयोः पुरतः आयान्ति ।
 
"https://sa.wikipedia.org/wiki/विन्ध्यपर्वतश्रेणी" इत्यस्माद् प्रतिप्राप्तम्