"विन्ध्यपर्वतश्रेणी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
}}
 
भूमे वेधनं कृत्वा [[भारतम्|भारतस्य]] मध्यभागे स्थितः पर्वतः विन्ध्यः। [[भारतम्|भारतस्य]] मध्यभागे [[गुजरातम्|गुजराततः]] [[बिहारम्|बिहारपर्यन्तं]] ७०० मैल् यावत् “विन्ध्य”पर्वतपङ्क्तिः प्रसृता अस्ति । विन्ध्यपर्वतस्य उत्तरभागम् उत्तरपथः इति, दक्षिणभागं दक्षिणपथः इति च वदन्ति । अस्याः पर्वतपङ्क्तेः आरम्भः भवति गुजरातराज्ये । अग्रे मध्यप्रदेशस्य [[सागरमण्डलम्|सागर]]- [[दामोहमण्डलम्दमोहमण्डलम्|दामोहमण्डलयोः]] उत्तरभागस्य बुन्देलखण्ड तथा रेवासंस्थानद्वारा प्रसृता पङ्क्तिः बिहारे समाप्यते । एवं पश्चिमतः प्रसृतः विन्ध्यः पूर्वतः आगतं सातपुरं [[नर्मदा|नर्मदायाः]] उद्भवस्थाने अमरकण्टके मिलति । सातपुरम् अपि विन्ध्यस्य एव कश्चन भागः ।
==भौगोलिकलक्षणानि==
एषा पर्वतपङ्क्तिः ४०,००० च.मै. प्रदेशम् आक्रम्य स्थिता अस्ति । अस्य शिखराणि माकिं १५००-२००० पादमितम् उन्नतानि । कानिचन शिखराणि ३००० पादमितम् उन्नतानि सन्ति । आम्बापाणिः (२३८५ पादमितम्), दाशरथी (२३४५ पादमितम्), सलखानपूरं (२१८७ पादमितम्), मृगनाथः (२१४८ पादमितम्) च अत्रत्यानि प्रमुखाणि शिखराणि । समग्रा प्रर्वतश्रेणी माल्वपीठभूमेः दक्षिणे, नर्मदानद्याः उत्तरे च एकपङ्क्तौ एव अस्ति । विन्ध्यपर्वते महताप्रमाणेन लभ्यमानाः सिकताश्शिलाः (मरळुगल्लु) भवननिर्माणस्य उत्तमसामग्री अस्ति । साञ्चि-बर्हुत्-प्रदेशेषु बौद्धस्तूपस्य निर्माणार्थं, खजराहोप्रदेशे देवालयस्य निर्माणार्थं, ग्वालियर्-नेर्वाड-चान्देरी-मान्द-प्रदेशेषु दुर्गस्य प्रासादस्य च निर्माणार्थं विन्ध्यपर्वतस्य सुधाशिला महता प्रमाणेन उपयुक्ता । “नागोड” इति स्थानं सुधाशिलार्थं, “पन्ना” इति स्थानं च वज्रार्थं प्रसिद्धम् । पर्वतोयं खनिजसम्पत्तेः आगरः । अयः, म्याङ्गनीस इत्यादीनि अत्र महता प्रमाणेन प्राप्यन्ते ।
"https://sa.wikipedia.org/wiki/विन्ध्यपर्वतश्रेणी" इत्यस्माद् प्रतिप्राप्तम्