"प्रक्षेपणक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
[[चित्रम्:EVD-bala-004.ogv|200px|right|thumb|लोहपिण्डप्रक्षेपणम्]]
सर्वतः प्रथमं पाषाण-खण्ड-प्रक्षेपणस्य प्रतियोगिता आयरलैण्ड -स्काटलैण्डयोः समभवत् । इत्यमेव लोहपिण्डस्य दूरे प्रक्षेपणं डर्विन-विश्वविद्यालये समारभत प्रतियोगिता चास्यामेरिकायां सन् १८७६ तमे वत्सरे समपद्यत । तत्र ७ फीटमित परिधौ स्थित्वा १६ पौण्डमितभारवतो लोहपिण्डस्य प्रयोगः कृतो दूरता चास्य ३२ फीटमिताऽभूत्, इयं प्रवृत्तिः सततं वर्धमाना सन् १६८० तमे हायनेऽमेरिकायाः ‘एफ. एल. लम्ब्रेचट’ महाशयस्य ४० फीटमितेन प्रक्षेपणेन फलिता । ततः परं राल्फरोजः’ ५१ फीटमितं, सन् १६४८ तमवत्सरे ‘चार्ल्स फोन विले’ महोदयः ५८ फीट ३/४ इञ्चमितं तथा सन् १६६८ तमवर्षे मेक्सिको -विश्वक्रीडोत्सवेऽमेरिकाया एव ‘रेडिमैटसनः’ ६७ फुट ४ ३/४ इञ्चमितं लोहपिण्डं प्रक्षिप्य कीर्तिमानमस्थापयत् ।
 
 
 
Line १४ ⟶ १५:
[[चित्रम्:Hammerthrow wire.jpg|200px|right|thumb|लोहश्रृङ्खलापिण्डप्रक्षेपणम्]]
इदं भारतीयपरम्परायां ‘गुलेल’ नाम्ना विख्यातस्य पाषाणखण्ड्प्रेक्षेपण्-साधनस्यानुकरणं विद्यते । पूर्वं केदारस्यैकस्मिन् भागे स्थितः कृषकः क्षेत्रे वृक्षे वा धान्यफलादीन् भोक्तुं समागतान् पक्षिण उड्डाययितुं दृढसूत्रनिर्मितक्षेपण्या गुलिकाक्षेपणं करोति स्म । कालान्तरेण परिष्कारपरम्परयाऽयः पिण्डप्रक्षेपणकला विकसिता । विंश्यां शत्यामेव विकासं प्राप्तेयं कलाऽऽयरलैण्डदेशीयस्य ‘जान फ्लेगन्’ -स्य सन् १६०६ तमे वर्षे १८४ फट ४" मिते दूरवर्तिनि स्थले पूर्वमयोगोलवक्षेपणात् प्रारभ्य साम्प्रतं विश्वकीर्तिमानरुपेण ७३ ७६ मीटरपर्यन्तं तस्य प्रापणेन प्रथिता । हंगरी-रुस-चापान- अमेरिकादिदेशवास्तव्या अस्यां कलायां रुचिं धारयन्ति ।
 
 
 
Line १९ ⟶ २१:
[[चित्रम्:Robert Harting (2008).jpg|150px|right|thumb|लोहचक्रकप्रक्षेपणम्]]
ग्रीकदेशीयैरेतत् प्रवर्तितमिति प्रतीयते, ते हि पूर्वं पाषाण्- निर्मितं चक्रकं प्रक्षिपन्ति स्म । तच्चक्रकं साम्प्रतिकचक्रकदतीव भारवद् व्यासवच्चाभवत् सन् १६८६ तमे वत्सरे ७ फीटमिते परिधौ स्थित्वा समानायां रेखायां चक्रकक्षेपण- प्रयोगः प्रावर्तत । १६०१ वर्षे ऽमेरिकाया ‘मार्टिन जे शेरीडानः’ १४१ फीट ४ ३/४" मितं प्रक्षेपणं विधाय यशोऽर्जितवान् । सन् १६१२ तमे वत्सरे ‘इन्टरनेशनल एम्योचोर एथलेटिक फैडरेशन’ द्वारा ८, २ १/२ " मिताय मण्डलाय स्वीकृति-प्राप्त्यनन्तरं ‘जे. डंकनः’ तस्मादेव मण्डलात् १५६ फीट १ १/४ मिते दूरस्थले चक्रकं क्षिप्तवान् । तदनन्तर च भूयांसः प्रक्षेपण- कलानुरागिणो निरन्तराभ्यासवशेन गतौ वृद्धिमानयन्तन्ते च ‘फेबुलसः’ २०० फीटमितं दूरस्थलं यावत् चक्रकं प्रक्षिप्य किर्तिमानं स्थापितवान् ।
 
 
 
 
"https://sa.wikipedia.org/wiki/प्रक्षेपणक्रीडा" इत्यस्माद् प्रतिप्राप्तम्