"अग्निपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
}}
 
'''अग्निपुराणम्''' (AgniPurana) अष्टादशपुराणेषु अन्यतमः । संस्कृतविश्वकोशेषु भजते प्रधानं स्थानम् । स्वयं [[पुराणानि|पुराणमिदं]] स्वस्मिन् अग्निपुराणे सर्वासां विद्यानां स्थानमस्तीति विस्फुटं ब्रूते । इयं हि सर्वेषां पुराणानां प्रस्तुतिभङ्गी यत् सर्वमपि विषयजातं द्वयोः संभाषणैः स्फोर्यते, एकस्यर्षस्य पर्यनुयोगम् अन्य उत्तरयतीति च । पुराणमिदमग्निनामकमपि संभाषणैरेव संघटितम् । तानि च सम्भाषणान्यग्नि[[वसिष्ठः|वसिष्ठयोः]] ।
 
पुराणमिति शब्दाकर्णनमनु सृष्टिः प्रतिसृष्टिरित्यादि वस्तुपूगं किलानुसन्दधति विमर्शनविचक्षणाः । अत्रापि सर्गस्य (सृष्टेः)विचारः १७-२० एतेष्वध्यायेषु वर्तते । प्रतिसर्गस्य तु पुनः ३३८ संख्याङ्कितस्याध्यायस्याननन्तरम् । वांशो नाम राजीयानामथवा ऋषियाणां नाम्नां पट्टिका । मन्वन्तरो नाम शासनपरिपाटयां मनूनां कालिकं क्रमिकं च परिवर्त्तनम् । राजर्षिणां चरित्राण्येव वंशानुचरितपदाभिलप्यानि । कल्पमन्वन्तरवर्णनम् अग्निपुराणे बहुषु स्थलेष्वक्षिलक्षीक्रियते । विशेषतः १५० संख्याङ्कितेऽध्याये चतुर्दशमन्वन्तराणां वर्णनं वर्तते । वंशानुचरितं तु भूयोभूयः समायाति ।
"https://sa.wikipedia.org/wiki/अग्निपुराणम्" इत्यस्माद् प्रतिप्राप्तम्