"वैष्णवसम्प्रदायः" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ६:
इति सर्वादौ वेदानामाविर्भावमुद्घोष्य तदनन्तरमेव अश्व-गो-मेध-याग-ब्राह्मणादिवर्णा सञ्जाता इति प्रत्यपादि । श्रुतय एव सर्वं ज्ञानविज्ञानानां मूलमिति मन्यन्ते भारतीया: । सर्वं वेदात् प्रसिद्ध्यति इत्यभियुक्त्योक्तिरेतदेव कथयति । विशेषत: खलु यज्ञार्थमेव वेदानामवतार:। यज्ञश्च नाम परमात्मन उपासना । परमात्मनो ज्ञानमेव परमश्रेयसो मोक्षाख्यस्य सम्पादकमिति “तमेव विदित्वाऽतिमृत्युमेति नान्य: पन्था विद्यतेऽयनाय” इति श्रुति: प्रतिपादयति । सर्वव्यापक: परमात्मैव भगवान् विष्णु: । “तत्सृष्ट्वा तदेवानुप्राविशत्” इति श्रुत्या विष्णुपदार्थो विज्ञायते । विशतीति विष्णुरिति व्यापक इत्यर्थ: ।
==विष्णोः देवत्वम्==
श्रीभगवान्
<poem>
विष्णो: सर्वशक्तिमत्वम् : [[ऋग्वेदः|ऋग्वेदे]] पवमानमण्डले स्पष्टतया उक्तमस्ति ।
अत्रहि विष्णु विश्वप्रकाशकस्य - सूर्यस्यापि प्रकाशक इत्युक्तम् ॥
</poem>
विष्णोर्महान्ति कर्माणि : विष्णुसूक्तेषु “उरुक्षितिं सुजनिमाचकार” इत्येतस्मिन् वाक्ये पृथिव्या: समृद्धये अयमवततार परमात्मा इति सूच्यते । पावमानमण्डले च स्पष्टमेव श्रूयते “हरि: सन्योनिमासदत्” । हरिर्विष्णुर्जन्म लब्धवानित्यर्थ: । आर्चिकेषु विष्णुसूक्तेषु च विष्णोर्वामनावतारवर्णनं सुस्पष्टतया व्यज्यते । वामनरूपिणो विष्णोर्यज्ञे गमनम् :- “बृहच्छरीरो विमिमान ऋक्वभिर्युवा कुमार: प्रत्येत्याहवम्” । अत्र युवा कुमार: आहवं नामयज्ज्ं प्रत्येति गच्छतीति वामनवटोर्यज्ञे गमनं व्यज्यते । त्रिभि: पदक्रमैर्विश्वस्याक्रमणम् :- “इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्” ।“त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्य:” । “विचक्रमाणस्त्रेधोरुगाय:” । “यस्योरुषु त्रिषु विक्रमाणेष्वधिक्षियन्ति भुवनानि विश्वा” । इत्यादिभिश्च वाक्यै: पौराणिकै: प्रतिपाद्यमानो वामनरूपिणो विष्णोर्विक्रम: सूच्यते । अन्यतापि “त्रिर्देव: पृथिवीमेष एतां विचक्रमे” (ऋक्) इत्यभ्यधायि । अयं च परमात्मा जगत्राणार्थमेव अवतारादिकं धारयति । तथाहि
==विष्णुसूक्तेषु==
“तत्तदिदस्य पौस्यं गृणीमसीनस्य त्रातुरवृकस्य मीढुष:” । इत्यत्र वज्रेण युध्यमनस्य (सीमस्य=) अन्नस्य संरक्षितु: अयं बलविभवोऽस्माभि: स्तूयते (तत् तद् अस्य विष्णो: पौंस्यं=बलं गृणीम=गिरा वर्णयाम:) इति प्रत्यपादि । तथा चैतावान् विष्णु: संसेव्य एवेत्याह भगवान् वेद: “महे शूराय विष्णवे चार्चत” (विष्णुसूक्तम्) । अथ ते विष्णो विदुषाचिदर्घ्य: स्तोमो यज्ञश्च राध्यो हविष्मता” (वि.सू) इत्यादिभिर्विष्णुप्रीतये
==उपसंहारः==
यथा श्रीनृसिंहतापनीय -रामतापनीय-श्रीदत्तोपनिषद: । अवतारवर्णनेन सह आसूपनिषत्सु उपासनापद्धतिरेव मुख्यतेनोपदिष्टा । विष्णोरवतारा बहव एव विद्यन्ते । केषुचित् पुराणेषु दश । श्रीमद्भागवते पुन: चतुर्विंशतिरवतारा वर्णिता: । तत्र श्रीदाशरथिरामस्य श्रीकृष्णस्य च उपासना बहुलप्रचारा । एतस्य ब्रह्मरूपविष्णो: सत्स्वरूपविज्ञाने न वेदादन्यत् किमपि प्रमाणमस्ति । तस्माद्वेदानभ्यस्य तद्गतरहस्यविज्ञानाय तदविरोधिस्मृतिपुराणादिशास्त्राण्यधीत्य स्वश्रेय: सम्पादने मनुष्यान् यथावत् प्रेरयतु भगवान् विष्णुरिति शम् ॥
|