"नाट्यशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७:
[[File:Classical indian dance 8.jpg|thumb|भरतनाट्यम्]]
:'''नाट्यं भिन्नरुचेर्जनस्य बहुधाऽप्येकं समाराधनम् ।''' कालिदासः, मालविकाग्निमित्रनाटके ।
भारतदेशस्य संस्कृतवाङ्मयस्य च कीर्तिसौधस्य आधारस्तम्भा इव चत्वारः भरतनामानः कीर्तिशेषाः श्रूयन्ते । तेषु प्रथमः दुष्यन्तपुत्रः भरतः । द्वितीयः बाहुबलिसोदरः भरतः । तृतीयः श्रीरामस्य अनुजः भरतः । चतुर्थस्तु नाट्यशास्त्रम् इत्येत्द्ग्रन्थस्य कर्ता [[भरतमुनिः]] । एवं चतुर्णाम् एतेषां भरतानां जन्मभूमिः, कर्मभूमिः च योऽयं देशः वर्तते [[भारतम्]] इति यथार्थाभिधानम् भजते । तथैव भरतमुनिना प्रणीतं भारतीयं नाट्यशास्त्रम् भवति । [[नाट्यवेदः]] इति नाट्यशास्त्रस्य पुरातनं नाम बभूव, यथा-
:वेदोपवेदैः संबद्धो नाट्यवेदो महात्मना ।
:एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना ॥ ना.शा.१.१८. ।
"https://sa.wikipedia.org/wiki/नाट्यशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्