"प्राचीनभूगर्भशास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
:'''मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ॥ इति ॥'''
 
भूमिः [[पञ्चभूतानि|पञ्चभूतात्मिका]], कपित्थफलाकारिका च इति अत्र स्पष्टतया निरुपितम् अस्ति । कपित्थफलाकाराकत्वं नाम दैर्ध्याधिक्ययुक्तगोलत्वम् । भूकेन्द्रं प्रति सर्वम् आकृष्टं भवति । अन्यत् किमपि अनाश्रित्य आकर्षणशक्त्या (परेशशक्त्या) निरालम्बा [[भूमिः]] व्योम्नि तिष्ठति इति एतस्मात् श्लोकात् ज्ञायते ॥
आर्यभटः भूव्यासम् अधिकृत्य वदति-ञिला भूः इति । तन्नाम भूव्यासः १०५० योजनमितः भवति । (१०५० =१२=१२६०० किलोमीट्टर् ।) आधुनिकाः अपि एतत एव परिमाणं प्रतिपादयन्ति ॥
भूमिः एव भ्रमति इति, सौरमण्डलम् अपि पराशक्तिं केन्द्रीकृत्य भ्रमति इति च अस्मत्पूर्वजैः सिध्दान्तितम् । कालिदासस्य काले भूशास्त्रविज्ञानं कथम् आसीत् इति [[मेघदूतम्|मेघदूतस्य]] पठनात् स्फुटीभवति ॥
भूभृत् इति पर्वतस्य पर्यायपदम् । पर्वताः भूतोलनं साधयन्ति इति आधुनिकाः अपि अङ्गीकुर्वन्ति । श्रीकृष्णविलासकाव्ये भूमिब्रह्मसंवादे भूस्थितिः, भुकम्पनं सूर्यरश्मिमहिमा इत्यादयः विषयाः काव्यशैल्या प्रतिपादिताः सन्ति । दिनचलनं, वार्षिकचलनम्, अयनं, ग्रहणं, समरात्रम् इत्यादयः बहवः विषयाः अतिप्राचीनकाले एव भारते चर्चिताः आसन् ।भूगुरुत्वाकर्षणाविषये भास्कराचार्येण विशदतया प्रतिपादितम् ॥
"https://sa.wikipedia.org/wiki/प्राचीनभूगर्भशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्