"संस्कृतसाहित्यशास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
यद्यपि शब्दार्थया साहित्यं सर्वेषु वाक्येषु साधारणम् तथापि काव्यगतेषु वाक्येषु तद्विलक्षणमेव । तत्र यादृशं साहित्यं प्रतीयते तादृशं साहित्यमन्यत्र सुतरां नोपलभ्यते । अत्र हि वाक्येषु विलक्षणं सादृश्यं वर्तते । वैलक्षण्यं च शब्दानाम् अलङ्कृतत्वेन व्यञ्जकत्वेन च अर्थानां तु कल्पितत्वेन व्यञ्जकत्वेन च । इदं वैलक्षण्यं मनसिकृत्यैव भामहादय आलङ्कारिका: ‘काव्यं नाम सहितौ शब्दार्थौ’ इत्याचचक्षिरे ।
 
काव्यगतयो: शब्दार्थयो: विलक्षणस्य साहित्यस्य दर्शनादेव काव्यविचारपरस्यास्य शास्त्रस्य साहित्यशास्त्रम् इति नामधेयं सम्पन्नम् । युक्तं चेदम्, वाक्यान्तरे अविद्यमानस्य साहित्यस्य प्रतिपादनात् । [[अलङ्कारशास्त्रम्अलङ्काराः|अलङ्कारशास्त्रमितिअलङ्कारशास्त्र]]मिति तु नामान्तरम् । अलङ्काराणां बाहुल्येन प्रतिपादनस्य सद्भावात् नामेदं प्रवृत्तम् । यद्वा, प्राचीनै: भामहादिभि: सत्स्वपि बहुषु पदाथेर्षु काव्ये सारभूततया अलङ्कारमेव अङ्गीचक्रु: नान्यम् औचित्यादिकम् । अनेन तस्मिन् काले तस्यैव प्राधान्यं सिद्धम् । ‘प्राधान्येन व्यपदेशा भवन्ति’ इति नियमेन प्रधानभूतानामलङ्काराणां प्रतिपादकस्यास्य शास्त्रस्य तदेव नाम सम्पन्नम् । यद्यपि उत्तरे काले अन्यस्यैव रसादे: सारभूतत्वात् प्राधान्यत पाश्चात्यै: विमर्शकै: निर्धारितम् तथापि कृतपूर्वस्य नामधेयस्य अनपायात् अद्यापि तदेव नाम प्रवर्तते ।
[[Image:Ravi Varma-Shakuntala columbia2.jpg|thumb|175px|[[अभिज्ञानशाकुन्तलस्य]] एकं सुन्दरं चित्रम्,[[राजा रविवर्मा]]]]
 
"https://sa.wikipedia.org/wiki/संस्कृतसाहित्यशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्