"केनोपनिषत्" इत्यस्य संस्करणे भेदः

अन्तर्हितः
पङ्क्तिः २२:
द्वितीयखण्डे तावत् आदौ शिष्यस्य अहं ब्रह्म सुवेद इत्याकारकदुरभिमानस्य निवारणार्थं यदि मन्यसे इत्यादिना आरभते । यतः ब्रह्मणः पूर्णज्ञानमस्यां संसारदशायां न भवति । यदा च त्रिपुटिलयः भवति तदा एव । यः मतमिति वदति तस्य निश्चयेन अमतं ब्रह्म । सर्वबौद्धप्रत्ययेषु अनुस्यूतं ब्रह्मतत्त्वं यः वेत्ति सः अमृतत्वं प्राप्नोति । इह चेदवेदीत् इत्यनेन ब्रह्मजिज्ञासाकर्तव्यता मानवे जन्मनि एव इति निश्चीयते ।
==तृतीयखण्डः==
तृतीयखण्डे तु आख्यायिका विद्यते देवानां दुर्महिमानगर्वप्रहरणरूपा । तत्रादौ परमात्मा यक्षरूपेण आविर्भवति । तद्विज्ञातुम् आदौ गच्छति अग्निः । गत्वा च स्वस्य गर्वं दर्शयति सर्वं दहेयं यदिदं पृथिव्याम् इत्यनेन । तदा यक्षेण स्थापितं किञ्चन तृणमपि दग्धुमशक्तः प्रतिनिवर्तते । एवमेव वायुरपि आगत्य गर्वभङ्गपुरस्सरं प्रतिगच्छति । यदा इन्द्रः आगच्छति तदा यक्षः अन्तर्धानोअन्तर्हितो भवति तस्मिन् स्थाने हैमवती उमा प्रत्यक्षा भवति । सा ब्रह्मतत्वस्य विषये वक्ति यत् देवानां गर्वभङ्गार्थमेव ब्रह्म यक्षरूपेण आगतम् इति । अन्ते च परब्रह्मोपासनमुक्तम् आधिदैविकाध्यात्मिकरूपेण । तस्य फलमपि उक्तं तस्य साधकस्य कृते सर्वाणि भूतानि चिदानन्दमयानि भवन्ति । सर्वभूतानां प्रियतमो भवति अयम् ।
==शब्दार्थाः==
<poem>
"https://sa.wikipedia.org/wiki/केनोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्