"वेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
अन्विष्यति
पङ्क्तिः ७:
ब्रह्म निर्गुणमस्ति किन्तु ज्ञानं तस्य स्वरुपं वर्तते । तस्य पूर्णता मायया जायते । माया एव जगदुत्पत्तेः कार्यं करोति । माया न सत् अस्ति, न चासत् एव वर्तते । इयं सदसद्विलक्षणा सत्तात्मिका चास्ति । माया ईश्वरस्य आज्ञया भेदं प्रकटयति परिणामतः नामरुपात्मकताया उदयो भवति । अनेन संसारः उत्पद्यते । माययैव वस्तुनः उपाधिः गृह्यते । यद्यपि ब्रह्म सर्वत्र व्याप्तमस्ति तथापि माययैव सर्वेषु पदार्थेषु ब्रह्मणः पृथक् पृथक् प्रतीतिर्जायते । जीवानाम् अनेकताया अपि इदमेव रहस्यमस्ति । प्रत्येकस्मिन् जीवे ब्रह्मैव सत्यमस्ति, यः भेदोऽस्ति सः मायाया एव परिणामो विद्यते ।
सांसारिकरुपे जीवा बहवः सन्ति, किन्तु तेषु अवस्थितं ब्रह्म एकमेवास्ति । अज्ञानी जीवो मायाया आवरणम् उच्छिद्य तद् स्प्रष्टुम असमर्थो भवति, अतः ब्रह्मणोऽदर्शनाम् जीवो मायाकृते अपाधौ मनसा रमते । शरीरे च सत् अन्विषतिअन्विष्यति । मायाया आवरणप्रभावात् आत्मा सीमितः प्रतीयते । तस्य शक्तिज्ञानादीनि सर्वाणि कार्यजातानि सीमितानि भवन्ति । सः पापपुण्याभ्यां आबद्धो भवति तत्फलभोगाय च विवशो जायते । पूर्वजन्मनः कृत्यानां फलोपभोगं कुर्वाणो जीवः ईश्वरेच्छया कर्मफलान्यपि भुक्ते । इदं अनन्तम् अनादिचक्रम् अनवरतं सक्रियं भवति ।
उपनिषदां प्रतिपाद्यं वेदान्तमते विविधप्रकारेण समालोचितम् । अतएव वेदान्तस्य पञ्च सम्प्रदायाः प्रादुरभूवन्-
"https://sa.wikipedia.org/wiki/वेदान्तः" इत्यस्माद् प्रतिप्राप्तम्