"छत्रपति शिवाजी" इत्यस्य संस्करणे भेदः

No edit summary
आस्वदते
पङ्क्तिः ७३:
 
==मुघलचक्रवर्तिनः जालः==
शिवराजस्य चेष्टाः [[औरङ्गजेबः|औरङ्गजेबस्य]] शिरोवेदना इव जाताः कोपेन तप्तः सः । शिवराजं नाशयितुम् अत्यधिकेन सैन्येन दक्षिणप्रान्तमगन्तुमैच्छत् । किन्तु तस्य पर्वतमूषकस्य नखतीक्ष्णताम् पूर्वमेव आस्वादयत्आस्वदत सः । अतः किञ्चिदालोच्य् 'सिंहं प्रतियोद्धुं सिंह एव आवश्यक’इति निश्चितवान् । एतस्य कार्यस्य कृते [[मिर्जापुरम्|मीरजामहाराजं]] जयसिहं चितवान् ।
राजा जयसिंहः न केवलं महान् पराक्रमी, विवेकी सेनापतिश्च । एतादृशः योग्यः पुरुषः परधर्मीयाणां सेवायां ध्न्यो भवामीति चिन्तयतीति ल्ज्जास्पदः विषयः अस्माकम् । अधिकसेनया जयसिंहः दक्षिणापथमागतः बीजपुरसुलतानेन सन्धिं विरचितवान् । सर्वाभ्यः दिग्भ्यः शिवराजं परितः सेनां निवेशितवान् । शिवराजः एकेन लेखेन सन्घिं प्रस्तुतवान् । तथैव जयसिंहेन मिलित्वा संभाषणं कृत्वा औरङ्गजेबेन सह संभाषणार्थमपि अङ्गीकृतवान् ।
सह्याद्रिगिरिशिखरेषु स्वेच्छया विहरन् मृगराजः शिवराजः किमर्थम् एवं हठात् चक्रवर्तिनः वशीभूतः ? इति सर्वे आश्चर्यचकिताः जाताः ।अग्रे कोऽपि गूढार्थः भवतीति सर्वे भावयन्ति स्म । सेवां करोमीति व्याजेन गत्वा औरंगजेबं ह्न्यात् इत्यपि चिन्तयन्ति स्म केचन । एतेन शिवराजस्य धैर्यसाहसादिविषये, समयस्फूर्तिविषये, समयं दृष्ट्वा शत्रुनाशनाय युक्तिप्रयोगविषये च जनाः कथं विश्वासं प्राप्तवन्त: आसन्निति अस्माभिः ज्ञायते । चिन्तनानुसारं शिवराजः स्वपुत्रेण सम्भाजिराजेन सह औरङ्गजेबेन मेलितुं प्रस्थितः । राजकुटुम्बिनः, पौराः च किं भविष्यति इति उत्कण्ठया आसन् । मार्गमध्ये अनेके हिन्दवः सादरं स्वागतं कृतवन्तः । शिवराजः आगरां प्राप्तवान् । तस्य कुटिलोपायविषये औरङ्गजेबः अपि अल्पचिन्तनं न कृतवान् । अत एव शिवराजं कदापि स्वसमीपमागन्तुं नाङ्गीकृतवान् । राजसभायामपि शिवराजस्य स्थानं दूरे एव अस्थापयत् । एतेन शिवराजः स्वचिन्तनाग्नौ दैवेन शीतोदकं सिञ्चितमिति भावितवान् । 'शिवराजं सगौरवं पश्यामि इति’ जयसिंहाय वचनं द्त्तवान् औरङ्गजेबः स्ववचोव्याघातं कुर्वन् शिवराजम् अपमानितवान् । शिवराजः परं क्रोधाग्निना ज्वलितः । औरङ्ग्जेबस्य यथा अपमाननं भवेत् तथा राजसभां त्यक्त्वा गतवान् ।
"https://sa.wikipedia.org/wiki/छत्रपति_शिवाजी" इत्यस्माद् प्रतिप्राप्तम्