"सरदारसरोवरजलबन्धः" इत्यस्य संस्करणे भेदः

No edit summary
कश्चित्
पङ्क्तिः ११२:
== वीक्षणीयस्थलत्वेन सरदारसरोवरजलबन्धः ==
 
केवडिया कॉलनि इति जलबन्धस्य स्थानिकनाम अस्ति । जलबन्धस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । तानि वीक्षणीयानि स्थलानि द्रष्टुं चीटिकायाः (ticket) आवश्यकता भवति । ८:३० तः १७:३० पर्यन्तं यात्रिकेभ्यः जलबन्धदर्शनार्थं व्यवस्थापकैः कालः निर्धारितः । यात्रिकेभ्यः मार्गदर्शनं, चीटिकाप्राप्तिः, पथप्रदर्शकः (guide) इत्यादिव्यवस्थाः जलबन्धप्रशासनस्य मुख्यकार्यालये भवन्ति । जलबन्धात् यस्मिन् स्थले जलं पतति, तस्य स्थलस्य पुर एव अतिरमणीयम् उद्यानम् अस्ति । तत् उद्यानं यात्रिकाणाम् आकर्षणकेन्द्रमस्ति । तस्मात् जलबन्धात् दुग्धवत् पतत् जलं उद्यानस्य वातावरणं सुरम्यं करोति । तत् पतज्जलं प्रकृत्याः अलौकिकतायाः, मानवस्य विकासशीलतायाः च प्रतीकत्वेन यात्रिकाणां ध्यानम् आकर्षयति । तत्र एकःकश्चित् तडागः अपि अस्ति । तस्मिन् तडागे नौकाविहारस्य व्यवस्था अस्ति । अतः तत्स्थलमपि यूनां, बालकानां च कृते मनोरञ्जनस्य केन्द्रम् अस्ति । विद्यार्थिभ्यः प्रकृतिशिक्षणस्य शिबिराणि अपि जलबन्धस्य समीपं सन्ति । विद्यार्थिभ्यः वनभ्रमणमाध्यमेन प्रकृतिशिक्षणं प्राप्तुं तत् उत्तमस्थिलमस्ति ।
 
प्रकृत्याः अलौकिकशान्ते वातावरणे भगवतः नाम भक्ताय हृदयाह्लादं यच्छति । अतः केचन प्रवासिनः तु [[शिव]]दर्शनाय अपि तत्र गच्छन्ति । तत्र सुरपाणेश्वरनामकं प्राचीनं [[शिव]]मन्दिरं जलबन्धस्य पृष्ठभागे अस्ति । जलबन्धस्य ध्वन्यां, हरितवृक्षैः आच्छादनयुक्तवातावरणे [[शिव]]मन्दिरस्य आभा देदीप्यते ।
"https://sa.wikipedia.org/wiki/सरदारसरोवरजलबन्धः" इत्यस्माद् प्रतिप्राप्तम्