"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

कारागारम्
पङ्क्तिः १०८:
भारतदेशे सावरकरविषये न्यायविचारणं कृतम् । तस्मिन् अपराधद्वय्म् आरोपितम् । प्रथमः- क्रान्तिद्वारा सः भारतदेशे आङ्ग्लराज्यं समूलमुन्मूलयितुं प्रयतते इति, द्वितीयः- आङ्ग्लाधिकारिणः संहर्तुं जनान् प्रेरयतीति च । एतस्य अपराधद्वयस्य दण्डरुपेण पृथक् पृथक् आजन्मकारावासद्वयम् विहितम् ।
आङ्ग्लाधिकारिभिः विहितं दण्डद्वयं श्रुत्वा सावरकरः " अहो ! आङ्ग्लेयानामपि हिन्दूनां पुनर्जन्मसिध्दान्ते विश्वासः अस्तीत्यत्र एतद् दण्डद्वयविधानमेव निदर्शनम् ।" इति छलोक्त्या व्याख्यातवान् ।
सावरकरस्य सर्वस्वं सर्वकारेण स्वायत्तीकृतम् । कारावासदण्डद्वयम् इत्यस्य अर्थः अण्डमाने पञ्चाशद्वर्षपर्यन्तं कठिनदण्डनानि अनुभोक्तव्यानीति । अण्डमान्-कारागारःकारागारं दुर्भरयातनानां, पीडानां विषये ख्यातः ।
[[अण्डमाननिकोबारद्वीपसमूहः|अण्डमान्]] पूर्वसमुद्रे स्थितः द्वीपविशेषः । तत्रत्यः कारागारःकारागारम् अत्यन्तकठिनदण्डनानां केन्द्रम् इति सर्वविदितम् । तत्र प्रेषितैः बन्दिभिः अनेकविधानि दण्डनानि एककाले अनुभोक्तव्यानि भवन्ति । तत्र तैलयन्त्रे वृषभस्थाने सावरकरं बध्द्वा आटयन्तः तिलं निष्पेषयन्ति स्म । प्रातः आरभ्य सायं पर्यन्तं यन्त्रम् आकृष्य सावरकरस्य शरीरं श्रान्तं भवति स्म । निर्णीतपरिमाणस्य तैलस्य निष्कासनसमये करतलं विदीर्णं भवतु, रक्तं स्रवतु नाम, तैलनिष्कासनानन्तरं तन्तुभिः निर्णीतपरिमाणा रज्जुः अपि तेन अवश्यं वयनीया भवति स्म । अन्यथा कशाघाताः अनुभोक्तव्याः भवन्ति स्म ।
 
==भ्रात्रोः कारागृहवासः ==
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्