"पश्चिमवङ्गराज्यम्" इत्यस्य संस्करणे भेदः

कुटीराः
पङ्क्तिः १७४:
 
==सुन्दरबनं राष्ट्रियोद्यानम्==
पश्चिमबङ्गालराज्ये गङ्गाब्रह्मपुत्रानद्योः अधोभागे लवणमिश्रितभूमौ एतत् उद्यानम् अस्ति । अस्य विस्तारः १३३० चतुरस्र कि.मी. भवति । प्रपञ्चे एव एतत् प्रदेशगभीरता प्रसिध्दा अस्ति । म्याङ्ग्रूव वनप्रदेशः एषः अतीव सुन्दरः अस्ति । अत्र ५४ द्वीपानि सन्ति । अनेक नद्यः अत्र सागरं प्रविशन्ति । सर्वतः जलमयप्रदेशः दृश्यते । पूर्व एतत् चोराणा लुण्ठकाना स्थानमासीत् । अधुना नौकाविहारः आह्लादकरः भवति । नामखान् रायडगी सोनाकाली नजाततः नौकायनव्यवस्था अस्ति । द्वीपानां दर्शन अतीवानन्दं जनयति । एतत् स्थलं व्याघ्रसंरक्षितप्रदेशः अस्ति । अत्र बङ्गालव्याघ्राणां दर्शनमपि भवति । अत्र वने कपयः वनसूकराः भल्लूकाः, जङ्गलक्यार् इत्यादि प्राणिनः सन्ति । अत्र जले १२० जातीयाः मीनाः सन्ति । मकराः कर्कटकाः सर्पाः अजगराः, विविधसर्पाः, कच्छपाः, कूर्माः च अत्र सन्ति । अत्र भगवतपुरं क्रकडैल प्राजेक्ट, जम्बूदीपः साजदेखालि, बूरिदाब्रि, व्याग्रयोजनाः, विरामद्वीपः, सोनाकाली इत्यादीनि द्वीपानि प्रसिद्धानि सन्ति । सागरएलेण्ड् प्रदेशे गङ्गानदी बङ्गालेष सागर प्रविशति । अत्र जनाः पुण्यस्नान कुर्वन्ति मकरसङ्क्रान्ति दिने लक्षाधिकजनाः अत्र पवित्र स्नान कुर्वन्ति । वाहनमार्गः - [[कोलकाता]]तः १७५ कि.मी. नौकया इतः ५ घण्टप्रवासः । वसतिकृते साज्ञिने कालिस्थले प्रवासीभवनम् अस्ति । सागरद्विफेसागरद्वीपे कुटीराणिकुटीराः, वीक्षणगोपुराणि च सन्ति । सप्तम्बरमसतः मेमासपर्यन्तं दर्शनार्थम् सकालः अस्ति । गौसाबनगरतः ५० कि.मी ।
 
==पाश्चिमबङ्गालराज्यस्य सागरतीराणि==
"https://sa.wikipedia.org/wiki/पश्चिमवङ्गराज्यम्" इत्यस्माद् प्रतिप्राप्तम्