"भीखाइजी कामा" इत्यस्य संस्करणे भेदः

b|h|iː|kh|aː|iː|j|iː|_|k|aː|m|aː
कुर्वती
पङ्क्तिः ४०:
[[पेरिस]]-महानगरे स्थित्वा भीखाईजी 'बोर्डिंग हाउस'-इत्यस्य प्रारम्भम् अकरोत्, येन आजीविका उद्भवेत्, क्रान्तिकारिणां कृते आवासव्यवस्था अपि स्यात् । तस्याः गृहं क्रान्तिकारिणाम् आश्रयस्थानम् आसीत् । तत्र [[श्यामजी कृष्णवर्मा]], [[सरदारसिंह राणा]], [[लाला हरदयाळ]], [[सावरकर]], [[वीरेन्द्रनाथ चट्टोपाध्याय]], [[सेनापति बापट]] इत्यादयः क्रान्तिकारिणः निवसन्ति स्म । तस्याः गृहे एव आङ्ग्लविरोधियोजनानां चर्चाः भवन्ति स्म ।
[[चित्रम्:India1907Flag.png|thumb|right|250px|<center>'''[[वन्देमातरम्]]-ध्वजः'''</center>]]
भीखाईजी-द्वारा चालितेन आङ्ग्लविरोधिकार्येण आङ्ग्लाधिकारिणां निद्रा एव नष्टा । अतः तैः [[भारतम्|भारतं]] प्रत्यागमनाय भीखाईजी इत्येषा आदिष्टा । परन्तु आङ्ग्लानाम् आदेशस्य उपहासं कुर्वन्तीकुर्वती भीखाईजी तेषाम् आदेशस्य उल्लङ्घनम् अकरोत् । भीखाईजी इत्यस्याः उपरि स्वेषां नियन्त्रणं नास्ति इति पश्यन्तः आङ्ग्लाः [[भारतम्|भारते]] स्थिताम् एकलक्षरूप्यकाणां भीखाईजी इत्यस्याः सम्पत्तिं स्वाधीनाम् अकुर्वन् । परन्तु अनेन भीखाईजी इत्यस्याः प्रसिद्धिः इतोऽपि अवर्धत । ततः भीखाईजी [[वन्दे मातरम्]]-नामकस्य क्रान्तिकारिसामयिकस्य आरम्भम् अकरोत् । तस्य समायिकस्य सम्पादन-दायित्वं [[लाला हरदयाळ]] इत्यस्य आसीत् ।
 
१९०८ तमे वर्षे [[जर्मनी]]-देशस्य [[स्टुट्गार्ट्]]-नगरे अन्ताराष्ट्रिय-समाजवादि-सम्मेलनम् आसीत् । तस्मिन् सम्मेलने [[फ्रांस]]-समाजवादिनः [[भारत]]स्य प्रतिनिधित्वेन भीखाईजी इत्यस्यै आमन्त्रणम् अयच्छन् । भीखाईजी तस्मिन् सम्मेलने प्रप्रथमवारं [[भारतम्|भारतस्य]] प्रतीकं [[राष्ट्रध्वजः|राष्ट्रध्वजं]] जगतः सम्मुखम् उपास्थायत् । सः [[राष्ट्रध्वजः]] वन्दे मातरम्-ध्वजत्वेन अद्यापि प्रसिद्धः अस्ति । वन्दे मातरम्-ध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः आसन् । तासु पट्टिकासु सर्वोपरि हरितवर्णीया, मध्ये पीतवर्णीया, अन्तिमे रक्तवर्णीया च पट्टिका आसीत् । हरितपट्टिकायाम् अष्टकमलचिह्नानि आसन् । पीतपट्टिकायाः मध्यभागे वन्दे मातरम् इति लिखितम् आसीत् । रक्तपट्टिकायां दक्षिणे [[सूर्य]]स्य, वामे [[चन्द्र]]स्य च चिह्नमासीत् ।
"https://sa.wikipedia.org/wiki/भीखाइजी_कामा" इत्यस्माद् प्रतिप्राप्तम्