"कारैक्काल् अम्बा" इत्यस्य संस्करणे भेदः

(लघु) clean up, added deadend tag using AWB
आश्चर्य
पङ्क्तिः १४:
अन्यफलं शिवभक्ताय दत्तम् इति वक्तुं शक्यं चेदपि पतिव्रता सा पत्युः रुच्यास्वादनभङ्गं कर्तुम् अनिच्छन्ती गृहस्यान्तः गत्वा हृदयपूर्वकं शिवं प्रार्थितवती । शिवस्य अनुग्रहेण एकं फलं प्राप्तवती । सा सन्तोषेण तत् फलं पत्युः कृते परिवेषितवती ।
 
परमदत्तः तत् फलं यदा खादितवान् तदा महदाश्चर्यम् अनुभूतवान् । 'किमिदं ! देवामृतस्यापेक्षया अपि रुचिपूर्णम् अस्ति । अहं पूर्वं यत् खादितवान् तस्य रुचिः न एतस्य इति चिन्तयन् पुनितवतीं पृष्ठवान् 'कुतः एतत् फलं प्राप्तम् ? सत्यं वद' इति । सा पतिम्प्रति सत्यकथनमेव पतिव्रतायाः धर्मः इति मत्वा प्रवृत्तं सर्वम् उक्तवती । किन्तु परमदत्तः तस्याः वाक्ये विश्वासं न प्रकटितवान् । अतः सः 'एतत् सर्वं सत्यं चेत् शिवं प्रार्थयित्वा इतोऽपि एकं फलं प्रप्नोतु' इति उक्तवान् । सा पुनः गत्वा प्रार्थितवती । शिवानुग्रहेण अन्यत् फलमपि प्राप्तवती । परमदत्तस्य हस्ते सा तत् फलं दत्तवती । एतत् सर्वं दृष्ट्वा परमदत्तः चकितःआश्चर्यचकितः । परमदत्तस्य मनसि भयम् उत्पन्नम् । स्वपत्न्याः उपरि भक्तिः अपि उत्पन्नम् । तदनन्तरं सः तया सह पत्नीसम्बन्धं त्यक्तवान् ।
==पत्युः वियोगः==
किञ्चित् कालानन्तरं नौकायां विदेशीयाः यानि वस्तूनि इच्छन्ति तानि सर्वाणि स्वीकृतवान् । समुद्रान्तरं गत्वा वाणिज्यं कृत्वा आगच्छामि इति उक्त्वा ततः प्रस्थितवान् । विदेशे वाणिज्येन प्रभूतं धनं सम्पादितवान् । ततः सः पाण्ड्यराज्यं प्रति गत्वा द्वितीयविवाहं कृत्वा पुत्रीमपि प्राप्तवान् । पुत्र्यै 'पुनितवती' इति नामकरणमपि कृतवान् ।
"https://sa.wikipedia.org/wiki/कारैक्काल्_अम्बा" इत्यस्माद् प्रतिप्राप्तम्