"भीखाइजी कामा" इत्यस्य संस्करणे भेदः

कुर्वती
दत्त्वा
पङ्क्तिः २४:
यतः सोरबजी पाश्चात्यसंस्कृत्याः अनुगामी आसीत्, अतः तेन स्वपुत्र्याः शिक्षणव्यवस्था ‘अलेक्ज़ाण्ड्रा’-कन्याविद्यालये कृता । तस्य विद्यालयस्य सञ्चालनं 'क्रिस्तिमिशनरी'-द्वारा भवति स्म । स्वपुत्री स्वसदृशा पाश्चात्यसंस्कृत्याः अनुगामिनी स्यात् इति तस्योद्दशः आसीत् । परन्तु [[भारत]]मातुः सेवायै जन्मधृता भीखाईजी परिवारस्य इच्छाविरुद्धं [[भारतस्वतन्त्रता]]यै स्वयोगदानम् अयच्छत् ।
 
१८६१ तमे वर्षे यदा भीखाईजी इत्यस्याः जन्म अभवत्, तदा [[भारतस्वतन्त्रता]]याः प्रप्रथमान्दोलनस्य प्रभावः सर्वत्र आसीत्, यतो हि १८५७ तमस्य वर्षस्य विप्लवस्य अनन्तरं चत्वारि वर्षाणि एव व्यतीतानि आसन् । सर्वत्र तस्य विप्लवस्य विषये चर्चाः भवन्ति स्म । [[मङ्गल पाण्डे]], [[तात्या तोपे]], [[राज्ञी लक्ष्मीबाई]] इत्यादीनां बलिदानस्य विषये सा बाल्यकालात् शृणोति स्म । अतः तस्यां देशं प्रति संवेदनायाः भावः उद्भूतः । सा ध्यानं दत्वादत्त्वा क्रान्तिकारिणां जीवनविषये शृणोति स्म । आङ्ग्लाः भारतीयानां कथम् अपमानं कुर्वन्तः सन्ति ? ते कथं देशं स्वाधीनं कुर्वन्तः सन्ति ? इत्यादयः विषयाः तस्याः सम्मुखं हस्तामलकवत् आसन् । आङ्ग्लानाम् अत्याचारात् देशस्य मुक्तिः भवेत् इति तस्याः बाल्यकालादेव लक्ष्यम् आसीत् ।
 
भीखाईजी अध्ययने चतुरा, श्रेष्ठा च आसीत् । सा नित्यं गृहकार्यं कृत्वैव भोजनं करोति स्म । सद्ग्रन्थानां सेवनं, सन्मित्रैः सह सम्बन्धः इत्यादयः तस्याः मुख्यगुणाः आसन् । [[भारतीयभाषा]]णाम् अध्ययनेन सह वैदेशिकभाषाणाम् अध्ययने अपि तस्याः रुचिः आसीत् । विद्यार्थिकालादेव तस्यां देशसेवायाः भावना दृढा आसीत् । यद्यपि तस्याः विद्यालये क्रान्तिकारिणां विषये शिक्षकाः न पाठयन्ति स्म, तथापि सा इतराध्ययनमाध्यमेन क्रान्तिकारिणां वषये पठति स्म ।
"https://sa.wikipedia.org/wiki/भीखाइजी_कामा" इत्यस्माद् प्रतिप्राप्तम्