"महादेवभाई देसाई" इत्यस्य संस्करणे भेदः

कश्चित्
मि
पङ्क्तिः २४:
== बाल्यं शिक्षणञ्च ==
 
पिता सर्वकारीयपाठशालायां शिक्षकः आसीत् । अतः पौनःपुन्येन तस्य स्थानान्तरणं (Transfer) भवति स्म । तेन महादेवस्य पठने विघ्नाः उद्भूताः । तथापि सः एकाग्रचित्तेन अध्ययनरतः अभूत् । चतुरः, कुशलः, प्रामाणिकः च विद्यार्थी इति शिक्षक-विद्यार्थिषु तस्य प्रसिद्धिः आसीत् । सुन्दराक्षरैः, नियमिततयानियततया गृहकार्यं कृत्वैव सः पाठशालां गच्छति स्म । [[सुरत]]-महानगरं सुवर्णनगरम् इति प्रख्यातम् आसीत् । उद्योग-भवननिर्माण-यन्त्रागाराः बाहुल्येन विकसिताः तत्र । तथापि महादेवस्य गृहं तु लघु एवासीत् । तस्य गृहे विद्युत् अपि नासीत् । अतः एरण्डतैलस्य (castor) दीपकप्रकाशे पठितवान् सः ।
 
बाल्यकालादेव तस्य मनसि देशभक्तिविचाराः प्रबलाः आसन् । १९०५ तमे वर्षे [[बङ्गाल]]-राज्ये आन्दोलनं चलदासीत् । तस्यान्दोलनस्य विषये जनजागृत्यर्थं नित्यं समाचारपत्रात् समाचारान् पठित्वा सः सहाध्यायिनः बोधयति स्म । बालकालस्य वर्णनं कुर्वन् महादेवः स्वजीवन्याम् अलिखत्, "'मेट्रिक'-इत्यस्य परीक्षार्थं [[मुम्बई]]-महानगरम् अगच्छम् । [[मुम्बई]]-महानगरे पितृव्यस्य गृहे अतिष्ठम् । परीक्षास्थलात् पितृव्यस्य गृहं प्राप्तुं यदा अहं निर्गतवान्, तदा मार्गं विस्मृतवान् आसम् । मार्गविस्मृतः अहं बहु रोदनं कुर्वन् इतस्ततः भ्रमन् आसम् । मार्गे कश्चित् आरक्षकः भ्रमन्तं, रुदन्तं माम् अपश्यत् । सः आरक्षकः मां गृहस्य सङ्केतं (Address) अपृच्छत् । अहं झटिति गृहसङ्केतम् उक्तवान् । ततः आरक्षकः मां गृहं अप्रापयत्" ।
"https://sa.wikipedia.org/wiki/महादेवभाई_देसाई" इत्यस्माद् प्रतिप्राप्तम्