"केङ्गल् हनुमन्तय्य" इत्यस्य संस्करणे भेदः

No edit summary
निष्कपटः
पङ्क्तिः ४२:
बहुकालं शासनं कृतवन्तः आङ्ग्लजनाः नगराणां पत्तनानां च नामानि आङ्ग्लभाषया परिवर्तितवन्तः । हनूमन्तय्यमहोदयः तानि पुनः परिवर्त्य कन्नडभाषायाः नामानि दत्तवान् । सिरङ्गपाठारितः- श्रीरङ्गपत्तनं, चिटल्ड्रुग्तः- चित्रदुर्गं, फ्रेञ्चराक्स् तः -पाण्डवपुरं, क्लोस्पेट्तः- रामनगरं च अभवन् । केङ्गल् हनूमन्तय्यः कन्नडभाषाभिमानी आसीत् इति वक्तुम् एषः दृष्टन्तः पर्याप्तः । जातिभेदं सः न सहते स्म । सः स्वयं जात्यतीतव्यक्तिः आसीत् । दीनानां सदा सहायहस्तः आसीत् । तस्य समयप्रज्ञा महती आसीत् । कस्मिन् अपि कार्ये दीर्घसूत्रः न भवति स्म । वचस्येकं मनस्येकं इतिवत् न। यथा वदति तथा आचरति स्म । सर्वदा वचनपरिपालनं करोति स्म ।
देशे सर्वत्र प्रचलितस्य आहारनियन्त्रणस्य पद्धतिं निषिध्य आहारसौलभ्यं कल्पितवान् । शरावतीविद्युदागारः अनेन एव आरब्धः । शुद्धजलाभावस्य प्रदेशेषु पानजलस्य व्यवस्थाः कल्पिताः । कोलारमण्डलस्य स्वर्णखनिः राष्ट्रीकृता अभवत् । केङ्गल् हनूमन्तय्यस्य काले एव [[बेङ्गळूरु]]नगरं सार्वभौमीयं नगरम् इति उद्घुष्टम् । अस्य मन्त्रिपदस्य काले कृतानि महत्कार्याणि नाम विधानसौधस्य निर्माणम् । एषः सौधः न केवलं शिलाभिः वज्रचूर्णैः निर्मितम् भवनम् ।अपि तु एतत् किञ्चित् अमरकाव्यम् । सर्वकारं सञ्चालयितुं याः व्यवस्थाः अवश्यकाः सर्वाः अत्र सन्ति । विधानसौधस्य निर्माणकार्ये निमग्नः आसीत् किन्तु तत्र उपवेष्टुम् अशक्तवान्।
[[कर्णाटक]]स्य एकीकरणार्थं केङ्गल् महोदयेन प्रामाणिकःनिष्कपटः प्रयत्नः कृतः । स्वतन्त्रे भारते भाषानुगुणं प्रान्तानां चयनं भवेत् इति अस्य वादः आसीत् । क्रि.श. १९५६तमे वर्षे एप्रिल् मासे मैसूरु विधनसभायां विधानपरिषदि च पुनः राज्यस्य विभागः व्यवस्थापयितव्यः इति निर्णायः अङ्गीकृतः । सचिवसम्पुटे एव विरोधेषु सत्सु अपि अचञ्चलः हनूमन्तय्यः राज्यस्य कर्णाटकम् इत्येव नाम निर्देशितवान् । विक्षिप्तानां कन्नडभाषिकभागानां पुनः संयोजनम् अभवत् । अस्य आन्दोलनस्य फलरूपेण कर्णाटकम् एकीकृतम् । क्रि.श.१९५६तमे वर्षे तस्य अवधेः समप्तेः पूर्वम् एव मन्त्रिपदं त्यक्तवान् ।
अनन्तरकालीनानि दिनानि तस्य अज्ञातवासस्य दिनानि एव । सर्वदा विश्रान्तजीवने एकान्तम् इच्छति स्म । नन्दिपर्वतप्रान्ते एकाकी बहुकलं यापयति स्म । रजकीयरङ्गात् दूरे स्थित्वा बहून् ग्रन्थान् पठितवान् । धर्मः देवः आदर्शः प्रामाणिकतानिष्कपटता इत्यादिषु विषयेषु विचारमथनम् अकरोत् । युवानः केङ्गल् महोदयस्य मार्गदर्शनम् इच्छन्ति स्म । जनानाम् अनुरोधेन पुनः राजकीयं प्रविष्टवान् । तस्य गृहे प्रतिदिनं राजकीयगण्याः आगत्य चर्चां चिन्तनं मथनं च कुर्वन्ति स्म ।
क्रि.श.१९५७तमे वर्षे केङ्गल् महोदयः मैसूरुशासनसभायाः निर्वाचने चितः । क्रि.श. १९५८तमे वर्षे रषियादेशं सन्दर्शितवान्। अग्रे केनडा, इङ्ग्लण्ड्, फ्रान्स्, हालेण्ड्, जर्मनी, स्वीडन्, अमेरिका इत्यादिदेशेषु प्रवासं कृतवान् । क्रि.श.१९६२तम् वर्षे केङ्गल् महोदयः लोकसभानिर्वचने चितः लोकसभासदस्यः अभवत् । अस्य जवाहरलालनेहरुः।नेहरुमहोदयस्य विषये अतीव गौरवम् आसीत् । किन्तु अभिप्रायभेदः आसीत् एव । क्रि.श. १९६७तमे वर्षे पुनः लोकसाभासदस्यः अभवत् । प्रासासनसमुद्धरण-आयोगस्य अध्यक्षः अपि भूत्वा क्रि.श.१९६७तमवर्षस्य मार्चतः १९७०पर्यन्तं दायित्वं निरवहत् । केङ्गल् महोदयस्य नायकत्वेन प्रशासनोत्कर्षस्य विषये २५सहस्रपुटात्मकः ग्रन्थः रचितः । भारतीयसंविधानस्य गौरवम् एषः ग्रन्थः प्राप्नोत् । क्रि.श.१९६७-६८तमे काले संसदि काङ्ग्रेस् पक्षस्य उपनायकः अभवत् । कि.श.१९६९तमे वर्षे बार्सिलोनादेशे प्रचालिते प्रशासनविज्ञानसम्मेलने भारतगणस्य नायकः अभवत् ।
क्रि.श.१९७०तमे वर्षे केन्द्रसर्वकारे समाजकल्याणविभागस्य सचिवः अभवत् । देशविदेशेषु सम्मेलनेषु भागम् ऊढ्वा स्वानुभवं संवर्धितवान् । क्रि.श.१९७१तमे वर्षे सम्भूते मध्यकालीने निर्वाचने बेङ्गळूरुनगरे विजितः पुनः केन्द्रे [[रेल्वेमन्त्री]] अभवत् । रेल्वेविभागे आमूलाग्रं परिवर्तनम् अनीतवान् । अस्य कार्यशैलीं राष्ट्रनायकः [[जयप्रकाशनारायणः]] प्राशंसत् । क्रि.श १९७२तमे वर्षे विनाकारणं त्यागपत्रं दातव्यम् अभवत् । अनन्तरं देशे अनिरीक्षितानि परिवर्तनानि अभवन् । काङ्ग्रेस् पक्षः पुनः विदलितः । आपत्परिस्थितिः (तुर्तुपरिस्थितिः) उद्घुष्टा । देशे विषमा परिस्थितिः सञ्जाता। तथापि केङ्गल् महोदयः मौनी अभवत् इति जनाः एतं निन्दन्ति स्म । क्रि.श. १९७७तमे वर्षे पुनः निर्वाचने काङ्ग्रेस् पक्षस्य अभ्यर्थी भूत्वा बेङ्गलूरुनगरे पराजितः अभवत् । पक्षस्य आन्तरिकनियमैः असम्मतः पक्षात् बहिरागतवान् । जनतापक्षं प्रोत्साहयितुं यतमानस्य तस्य आशाभङ्गः अभवत् । क्रि.श.१९७७तमे वर्षे सेप्टम्बर् मासे अष्टतत्त्वयुकत्तं सुराज्यं इति नूतनं पक्षं रचितवान् । किन्तु कानिचन दिनानि प्रवर्त्य सः पक्षः काङ्ग्रेस् पक्षे विलीनः अभवत् ।
"https://sa.wikipedia.org/wiki/केङ्गल्_हनुमन्तय्य" इत्यस्माद् प्रतिप्राप्तम्