"पञ्जाबराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
प्राप्यते
पङ्क्तिः ७९:
 
==कार्बुसियर् पत्तनम्==
एतस्य विशिष्टनगरं सुन्दरनगरं, इति प्रसिद्धिः अस्ति । नगरनिर्माणस्य कश्चन विशिष्टः इतिहासः अस्ति । [[भारतम्|भारतपाकिस्तानयोः]] विभागसमये लाहोरनगरं पाकिस्तानदेशे गतमभवत् । तदा उत्तमनगरं निर्मीय पञ्जाबप्रान्ते राजधानी निर्माणाय चिन्तम् आरब्धा अभवत् । एव नगरारम्भः [[भारतसर्वकारः|भारतसर्वकारेण]] चिन्तितः अभवत् । प्रथमप्रधानमन्त्री श्री [[जवाहरलाल नेह्रू|जवहरलाल]] महोदयः क्रिस्ताब्दे [[१९५३]] तमे वर्षे नगरारम्भ कृतवान् । क्रिस्ताब्दे [[१९६६]] तमे वर्षे हरियाणा राज्यस्योदयः अभवत । त् अस्यापि राजधानी आवश्यकः आसीत् । एव उभयोः राज्ययोः एकनगरे राजधानीकार्याणि’ प्रचलन्ति उभयोः एकः एव उच्चन्यायालयः स्थापितः अभवत् । नगरनिर्माता अभियन्ता वास्तु शिल्पी कार्बुसियर् नगरयोजनां रूपितवान् । प्रतिकालम् अनुरूपाः सूचनाः दत्तवान् । एतेन अद्यपि नगरयोजना निर्मातारः नगरभ्यासि जनाः नूतनवास्तुसिला ज्ञातुम् इच्छुकाः अत्रागत्य अध्ययनं कुर्वन्ति । मरुस्थले पुष्पाणि कथं विकासितानि इति कुतूहलेन वास्तुतन्त्रज्ञाः अद्यापि चकिताः सन्ति । चण्डीगडनगरस्य रचनं ग्रिड् स्टैल् सेक्तर्युक्तम् । हरिद्विभागः अत्याधुनिकः । अस्य नगरस्य विस्तारः ११४ चतुरस्र कि.मी. अस्ति । मुख्यतः त्रीणिनगराणि, २७ ग्रामाः नगरक्षेत्रे मिलितानि सन्ति । वायव्ये सिवालिक् पर्वतावली अस्ति । अस्य नगरस्य पेयजलसमस्यां परिहर्तुं नूतनप्रकल्पेन सुखानम् इति विशालं सरः निर्मितः। [[भारतम्|भारते]] कृतेषु कृत जलाशयेषु एषः जलाशयः अप्यकेः अस्ति । चण्डीगडनगररचनायां फलपुष्पविभागस्य महत्वपूर्णं योगदानम् अस्ति । फलपुष्पानां विषये आसक्तानां चण्डीगडनगरमेव नन्दनवनमिव निर्मितम् अस्ति । अलङ्कारिकपुष्पाणां वस्तुसङ्ग्रहालयः इति एतत् नगरं सम्बोधयन्ति । एवं सप्तविभागेषु व्याप्तम् उद्यानम् उत्तरभारते अन्यत्र कुत्रापि न द्रष्टुं मिलतिशक्यते । उद्यानानि डा. झकिर् हुसेन्, रोजगार्डन्, इत्यादीनि शान्तिकुञ्जानि सन्ति । विविधस्तरेषु वाटिकाः निर्मिताः । टोपिनीवाटिकाः इति नाम्ना तन्त्रीजालैः निर्मिताः प्राणिनामाकृतयः स्थापिताः । आम्रोद्यानम् उत्तमं प्रेक्षणीयं स्थलमस्ति । पार्श्वे राक् गार्डन् म्यूज़ियं कलासङ्ग्रहालयः च सन्ति । सप्ताहे सोमवासरः विरामदिनम् । जवाहरलालनेहरु चण्डीगडनगरं प्राचीनवैभवदर्शकं भविष्यत्कालीनं विश्वासपात्रं नवीनं नगरं इति वर्णितवान् । नवीनशिल्पस्य एतत् नगरं विश्वस्य परम्परानगरम् इति उद्घुष्टम् ।
 
==राकगार्डन्==
"https://sa.wikipedia.org/wiki/पञ्जाबराज्यम्" इत्यस्माद् प्रतिप्राप्तम्