"सोमनाथः" इत्यस्य संस्करणे भेदः

उच्चारदोषः निवारितः
प्राप्यते
पङ्क्तिः ५३:
चन्द्रस्थापितम् एतन्मन्दिरं बहुवारं ध्वस्तं जातमस्ति । परन्तु सर्वदा शिवभक्ताः एतस्य पुनर्निर्माणं कृतवन्तः । सर्वप्रथमं [[चन्द्रः]] इदं मन्दिरं स्वर्णेन निर्मापितवान्, यस्य ध्वंसानन्तरं [[रावणः]] रजतेन मन्दिरस्य पुनर्निर्माणं कारितवान्, अस्यापि ध्वंसानन्तरं भगवान् [[विष्णुः]] चन्दनकाष्ठैः अस्य मन्दिरस्य पुनर्निर्माणं कारयामास । तदनन्तरमपि अस्य मन्दिरस्य ध्वंसः, पुनर्निर्माणश्च बहुवारं अभूत् ।[[चित्रम्:OldSom.jpg|thumb|right|200px|<center>'''ध्वस्तं सोमनाथमन्दिरम्'''</center>]] ७२५ तमे वर्षे 'जूनायद' नामकः 'आरब'शासकः एतन्मन्दिरम् अलुण्ठत् अध्वंसत च । ततः ८१५ तमे वर्षे नागभट्टनामकः कश्चन राजा पुनर्निर्माणं कारितवान् । पुनः १०२६ तमे वर्षे 'महमद गजनी' नामकः यवनराजा मन्दिरम् अलुण्ठत् । एषोऽपि मन्दिरं ध्वस्तं कृतवान् परन्तु कथं चेद् असख्यकानां यात्रिकानां वधं कृत्वा, अन्ते मन्दिरं अग्निसात्करोत् । पश्चाद् १०२६-१०४२ मध्ये राजा भीमदेवः पुनर्निर्माणं कारितवान् । १७०६ तमे वर्षे मोगल राजा औरङ्गजेब सोमनाथं अलुण्ठत् अध्वंसत च ।
 
आहत्य, सप्तदशवारम् अस्य मन्दिरस्य ध्वंसः कृत: आसीत् इति उल्लेखो मिलतिप्राप्यते । अधुना यद् मन्दिरमस्ति, तस्य पुनर्निर्माणकार्यम् महान् नेता लोहपुरुषश्च [[सरदार् वल्लभभाई पटेलः]] १९४७ तमे वर्षे नवम्बरमासस्य ३० दिनाङ्के आरब्धवान् । १९५१ तमे वर्षे मेमासस्य ११ दिनाङ्के राष्ट्रपतिः श्री[[राजेन्द्रप्रसादः]] अत्र प्राणप्रतिष्ठाम् अकरोत् । मूलस्थाने पुनः वैभवयुतं मन्दिरं शिरः उन्नीय स्थितम् । एतत् मन्दिरम् अद्य अत्यन्तं सुन्दरम् अपूर्वशिल्पकलायुक्तमन्दिरं सञ्जातम् । प्राचीनस्य सोमनाथमन्दिरस्य अवशेषाः अट्टोपरि सङ्गृहीताः सन्ति । [[पालिताणा]]पत्तनस्य प्रसिद्धस्य शिल्पिनः प्रभुशङ्करसोमपुरा इत्याख्यस्य मार्गदर्शनेन एतत् मन्दिरं निर्मितम् आसीत् । [[महाराष्ट्रराज्यम्|महाराष्ट्रस्य]] सुप्रसिद्धवैदिकपण्डितस्य लक्षमणशास्त्रिजोशी इत्येतस्य पौरोहित्ये अत्र प्राणप्रतिष्ठा जाता । तस्य गुरुः श्रीकेवलानन्दसरस्वती अपि अस्मिन् कार्यक्रमे भागम् गृहीतवान् ।
[[चित्रम्:Charan.jpg|thumb|right|200px|<center>'''श्रीप्रभासतीर्थः'''</center>]]
 
"https://sa.wikipedia.org/wiki/सोमनाथः" इत्यस्माद् प्रतिप्राप्तम्