"मीमांसादर्शनम्" इत्यस्य संस्करणे भेदः

अवतिष्ठते
प्राप्यते
पङ्क्तिः ४७:
श्रुत्यादयः षट् वेदोक्तार्थनिर्णये प्रमाणानि भविष्यन्ति । तत्र सूत्रम् –“श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाखानां समवाये पारदौर्बल्य मर्थविप्रकर्षात्”<ref>जैमिनीसूत्रम्- ३-३-१४</ref> इति मन्त्रदेवताहविरादि द्रव्याणां विनियोगः कुत्र कर्तव्यः ? इतीमामाकाक्षां निर्धारयन् श्रुत्यादिषट्प्रमाणानि प्रवर्तन्ते । इमानि षट् एकस्मिन् काले अथवा सर्वदा एकत्र प्रावर्तिष्यन्त् तर्हि अनवस्था स्यात् । अतः पारदौर्बल्यमर्थविप्रकर्षात् इत्युक्तम् । यत्र प्रमाणद्वयस्य सन्निपातः तत्र पूर्वापेक्षया अपरं प्रमाणं दुर्बलमित्युच्यते । एतत् क्रमानुसार सर्वेषां प्रमाणानां निर्णायकत्वेन मुख्यत्वेन च श्रुतिरेव अन्तिमत्वेन तिष्टति । अस्याः अपेक्षया अन्ये लिङ्गादयः सर्वे दुर्दलाः भविष्यन्ति ।
 
श्रुतिः द्विःप्रकारात्मिका अस्ति –एका साक्षात् पठिता, अन्या अनुमिता । प्रथमस्योदाहरणम् –ऐन्द्रया गार्हपत्यमुपतिष्ठते इति । अत्र देवतासम्बन्धी या ऋक तस्याः गार्हपत्याग्नि उपस्थाने विनियोगः इति पुरोडाशस्य सदनं करोति इति । वाक्यमेतद् श्रुतिसमूहेषु न कुत्रापि मिलतिप्राप्यते । "श्योनं ते सदनं कृणोति”<ref>तै० ब्रा० ३-६</ref> इति ब्राह्मण वाक्यानुसार मन्त्रार्थ दृष्ट्वा अनेन लिङ्गात्मकज्ञापकबलेन मन्त्रार्थानुसारं मन्त्रविनियोगं कुर्वन्त्याः श्रुतेरस्याः अनुमानं क्रियते ।
 
अर्थप्रकाशन सामर्थ्यत्मकं यत् तल्लिंगमित्युच्यते । लिंगमेतत् श्रुत्यनुसार भवति । लिंगमपि द्विविधम्-साक्षाद्, दृश्यमानम्, अनुमितं चेति । साक्षाद् दृश्यमानं लिंगं नाम श्योनं त इति पुरोडाशस्य सदनं करोति इति भवति । अनुमितलिंगस्योदाहरणम् –“ देवस्य त्वा सवितु प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां जुष्टं निर्वपामि” (ते० स० १-१ ४ ) इति वाक्यम् । आकांक्षायोग्यतादिवशेन परम्परान्वितार्थ पदानां यः समूहः तत् बाक्यमित्युच्यते । देवस्य त्वा इति वाक्ये अग्नये जुष्टं इति भागस्यास्य निर्वापरुपात्मकार्थप्रकाशनसामर्थ्यं प्रत्यक्षत्वेन दृष्टम् तेन एकवाक्येन अवशिष्टभागस्य अनेन वाक्यप्रमाणबलेन अर्थप्रकाशनसामर्थ्यमनुमीयते । तेन समुदितमिंगेन देवस्य त्वेति निर्वपति इति श्रुतेः अनुमान क्रियते इति श्रुतेरपेक्षया लिंगं दुर्बलम् ।
"https://sa.wikipedia.org/wiki/मीमांसादर्शनम्" इत्यस्माद् प्रतिप्राप्तम्