"ब्रह्मसूत्राणि" इत्यस्य संस्करणे भेदः

No edit summary
श्री
पङ्क्तिः ३:
संस्कृतवाङ्मयं च अतिविस्तृतं, तत्र प्रथमं वेदाः, षडङ्गानि, इतिहास-पुराणानि, धर्मशास्त्रमिति । तदनन्तरत्वे च षडास्तिकदर्शनानि नास्तिकदर्शनानीति प्रसिद्धम् । आस्तिकदर्शनान्तर्गतत्वे यत् वैयासिकदर्शनम् उत्तरमीमांसादर्शनं तत्र ’प्रस्थानत्रयम्’ इति अत्यन्तं प्रसिद्धम् । श्रुतिप्रस्थानम्, स्मृतिप्रस्थानम्, न्यायप्रस्थानमिति अवयवत्रयम् । तत्र तृतीयप्रस्थानन्तर्गतं भवति इदं ब्रह्मसूत्रम् ।’प्रस्थानम्’ इति शब्दस्य मार्गः इत्यर्थः । ब्रह्मावगतौ मार्गः इत्यर्थः । एवञ्च ब्रह्मसूत्रं नाम ब्रह्मसम्बद्धं सूत्रमित्यर्थः सिद्धो भवति । अस्य च कर्ता बादरायणः । ग्रन्थस्यास्य अन्यदपि नाम अस्ति यत् वैयासिकसूत्राणि इति । शारीरकमीमांसा इत्यपि व्यवह्रियते । शारीरस्य जीवस्य अद्वैतब्रह्ममार्गः प्रदर्श्यते इति हेतोः ।
 
दर्शनेषु काश्चन क्रमः आदृतः वर्तते यत् प्रथमं सूत्राणि, अनन्तरं भाष्यम्, वार्तिकम्, व्याख्यानम् इति शास्त्रविचाराणाम् उपस्थापनक्रमः येन च मन्दमतीनां सुलभेन प्रतिपत्तिः भवति । तथैव च ग्रन्थस्यास्य सूत्रकारः श्री बादरायणःश्रीबादरायणः, भाष्यकारः श्रीश्रीः आद्यः शङ्करः, वार्तिककारः श्री सुरेश्वराचार्यःश्रीसुरेश्वराचार्यः, व्याख्यानकारास्तु अनेके सञ्जाताः श्री गोविन्दानन्दःश्रीगोविन्दानन्दः, श्री वाचस्पतिमिश्रःश्रीवाचस्पतिमिश्रः, श्रीमदानन्दगिरिः, श्रीश्रीः अमलानन्दः, श्रीमदप्पय्यदीक्षितः इत्यादयः । इतोऽपि अनेके स्युः किन्तु, एते व्याख्यानकारास्तु प्रसिद्धाः प्रधानभूताः शास्त्रप्रपञ्चे । इति ब्रह्मसूत्रग्रन्थस्य आपाततः परिचयः ।
 
==प्राक्कथनम्==
"https://sa.wikipedia.org/wiki/ब्रह्मसूत्राणि" इत्यस्माद् प्रतिप्राप्तम्