"छत्रपति शिवाजी" इत्यस्य संस्करणे भेदः

शृ
पङ्क्तिः ५१:
अष्टादशवर्षाणां वयस्येव शिवराजः कोङ्कण-पुरन्दर- [[प्रतापगडदुर्गम्|प्रतापगृह]]-राजगृह-चाकणेत्यादिनि चत्वारिंशत् दुर्गाणि स्वायत्तीकृत्य तत्र भगवद्ध्वजं प्रतिष्ठापितवान् । अस्मिन् समये एव देशस्य पश्चिमभागे आंगलेयाः पोर्चगीसजनाः च पदनिक्षेपं कुर्वन्तः आसन् । एते विदेशीयाः यदा कदापि भारतदेशं सङ्कटेषु पातयिष्यन्तीति सः पूर्वमेव समभावयत् । एतेभ्यः देशरक्षणाय समुद्रतीरप्रान्तेषु दुर्गाणां निर्माणम् आरभत । युध्दाय योग्याः नौकाः, नाविकादलं च निरमात् । विदेशीयशक्तिभ्यः सम्भविष्यमाणाम् आपदं पूर्वमेव ज्ञातवान् । तेषाम् आक्रमणानि निरोध्दं योग्यां रक्षणव्यवस्थां व्यरचयत् च एवं शिवराजः बहुदूरदर्शी आसीत् ।
==शत्रूणां स्ंहार:==
शिवराजः स्वराज्यनिर्माणे सफल: भवन्नस्तीति दृष्ट्वा आदिलशाहस्य (बीजपुरसुलतानस्य) मनः व्याकुलितम् अभवत् । निःस्पृहता आवृता । 'शिवराजः आस्मिन् दिने एतद् दुर्गं जितवान्, ह्यः तद् दुर्गं जितवान् ’ इत्यादि वार्ताः प्रतिदिनं सः श्रृणोतिशृणोति स्म । राज्ञः सपत्नीमाता उलियाबेगम् नाम्नी शिवराजं नितरां द्वेष्टि स्म। सा प्रख्यातान् सर्वान् वीरानाहूय सभामेकाम् आयोज्य -"शिवराजं बन्धुं यस्य धैर्यसाहसादिकम् अस्ति, सः एतं खड्गं स्वीकरोतु’ इति पन्थाह्वानं कृतवती । सभायाः मध्ये पटवस्त्रेण आवृतः खड्गः आसीत् ।तदा बृहदाकारकः दृढकायः कश्चन सेनापतिः उत्थितवान् । पुरतः आगत्य तं खड्गं गृहीतवान् । तस्य नाम अफजलखानः । आदिलशाहसभायां मुख्यसेनानीषु अयम् एकः ।यथा अयं पराक्रमी, तथा वञ्चकः, क्रूरश्च । पञ्चविंशतिसहस्रयोधै: युक्तं बलिष्ठं सैन्यं स्वीकृत्य सः शिवराजं ग्रहीतुं प्रस्थितवान् ।
आरम्भे अफजलखानः तुलजापुरस्थं देवीमन्दिरं स्वह्स्ताभ्यां ध्वस्तं कृतवान् । तुलजापुरभवानी शिवराजस्य कुलदेवता । एवमेव
[[पण्ढपुरम्|पण्ढरपुरस्थां]] मूर्तिमपि ध्वस्तवान् । खानेन क्रीयमाणानां दुष्कृत्यानाम्, अत्याचाराणाञ्च वार्ताः शिवराजं प्राप्नुवन्त्येव । शिवराजः यावत् दुर्गेषु, अरण्येषु तिष्ठति, तावत् तस्य बन्धनं नैव सुकरं भवति इति खानः जानाति स्म । देवालयानां ध्वंसः, स्त्रीणाम् अत्याचारः, गवां हननम् इत्यादि अकृत्यानि कुर्मः चेत् शिवराजः अवश्यं बहिरागमिष्यतीति, विनायासं तं ग्रहीतुं शक्नुमः इति अफजलस्य कुतन्त्र्म् आसीत् ।
पङ्क्तिः ६७:
सागरोर्मिवत् पततः आदिलशाहस्य सैनिकान् बाजीप्रभुः गृञ्जनकानीव कर्तयति स्म । घोरः सङ्ग्रामः जातः तस्य ग्रात्रं सर्वमपि व्रणैः रक्तसिक्तम् अभवत् । स्वव्रणान् अगणयित्वा सायं पर्यन्तं सः युद्ध्यन्नेव आसीत् । बाजीप्रभुसैनिकाः बहवः मृताः । अन्ते बाजीप्रभोः प्राणोत्क्रमणं यथा भवेत् तथा शत्रुः कश्चन खड्गेन मारितवान् । बाजीप्रभुः खड्गप्रहारपीडया मृत्युवेदनाम् अनुभवन्न्पि मृत्युं प्रार्थितवान् -‘हे मृत्यो ! मम कर्तव्यसमाप्तिपर्यन्तं किञ्चित् तिष्ठतु ।’ इति । तदा एव विशालदुर्गतः पञ्चवारं शतध्नीनां शब्देन सूचना श्रुता । तस्यार्थः शिवराजः सुरक्षितं विशालदुर्गं प्राप्तवानिति । बाजीप्रभुः अत्यानन्दम् अनुभूतवान् । खड्गं त्यक्त्वा दिवङ्गतः । तस्य मुखे कर्तव्यसमापनतृप्तिः दृश्यते स्म । आत्मार्पणं कृतवतां तेषां वीराणां बलिदानेन सः प्रदेशः पवित्रः जातः । तदारभ्य जनाः तं प्रदेशं पवित्रस्थानम् इति वदन्ति ।
शिवराजः पन्हालदुर्गत: पलायितः इति वार्ता बीजपुरसुलतानः ज्ञातवान् । तस्य शिरसि सहस्त्रशः वज्राघाताः जाताः इव । तस्य धैर्यं क्षीणं जातम् । शिवराजं पुनः आक्रान्तुं तस्य साहसं नासीत् । किन्तु शिवराजस्य राज्ये षयिस्तेखानरुपेण अन्या आपद् आगता । तामापदं निवारयितुम् अत्यावश्यकतया चिन्तनीयः अवसरः संप्राप्तः । एषा विपत्करस्थितिः कथं सम्मुखीकरणीया....? शिवराजः साहसोपेतम् उपायमचिन्तयत् । तदानीं रम्जान्-मास: । षायिस्तेखानसेनायां सैनिकाः उपवासनियमं पालयन्ति स्म । दिवा निराहारिणः रात्रौ अधिकं खादित्वा अतिनिद्रावशं गच्छन्ति स्म ते । तावता औरङ्गजेबस्य सिंहासनमधिष्ठाय एकवर्षं जातम् आसीत् । अतः रात्रौ मृष्टान्नभोजनं भविष्यति । एतत् ज्ञात्वा द्विसहस्त्रं सैनिकान् चित्वा शिवराजः रायदुर्गतः रात्रौ प्रस्थितः । पुण्यपत्तनतः क्रोशदूरे शिबिरं कृतवान् । पुण्यपत्तनस्य् रक्तभवने (लालमहल्) यत्र शिवराजेन बाल्यं यापितम् आसीत् तस्मिन् एव षायिस्तेखानः निवेशं कृतवान् । पुण्यपत्तने, तत्परिसरप्रान्तेषु एकलक्षं मुघलसैनिकाः निविष्टाः ।
शिवराजस्य बाल्यमित्रं बाबाजी कैश्चित् सैनिकैः सह मुघलसेनायाः वलयं प्रति प्रस्थितः । तमं शिवराजः अल्पसङख्याकैः सैनिकैः सह अनुसृतवान् । परस्परं भाषामाणाः साधारणसैनिका इव ते मुघलसैन्यवलयं प्रविष्टवन्तः । परिरक्षकाः यदा न्य्रुन्धन् तदा " वयं पर्यटन्तः रक्षकभटाः । अस्माकं रक्षणसमयः समाप्तः, अतः इदानीम् अस्माकं निवासं प्रति गच्छामः । " इति विश्वासितवन्तः । परिरक्षकाः विश्वासं प्राप्तवन्तः । सर्वे सेनानिवेशस्य अन्तः प्रविष्टाः । शिवराजः साक्षात् भवनस्य पश्चादभागं प्राविशत् । ततः पाकगृहं प्राप्तवान् । तत्रत्यान् सर्वान् संहृत्य, शनैः षायिस्तेखानस्य शयनगृहं प्राविशत् । तत्र गमनसमये एकं कुड्यं भेत्तव्यम् आपतितम् । तदा लघुशब्दः अभवत् । तं श्रृत्वाशृत्वा कश्चन कर्मकरः सूचनां दातुं खानस्य समीपं गतवान् । निद्रापरवशः खानः 'पाकगृहे मूषिकाः शब्दं कुर्वन्ति, गच्छ्तु 'इति कुपितः ।
एतदन्तरे शिवराजस्य सेनापि भवनान्तर्भागं प्रविष्टा । लालमहले सर्वत्र शत्रवः प्रविष्टाः इति वार्ता दावानलज्वाला इव प्रसृता । षायिस्तेखानस्य पत्न्यः स्वपतिं यवनिकानां पृष्ठत: गोपितवन्तः । शिवराजः पुरतः आगत्य स्वखङ्गं क्षिप्तवान् षयिस्तेखानस्य हस्ताङ्गुलित्रयं छिन्नम् । खानः वातायनतः कूर्दनं कृत्वा पलायितः । तदैव मुघलसेना जागरिता । रक्तभवनं परितः यथेच्छं अत्यन्तवेगेन सर्वे धावन्ति स्म । शिवराजसैनिकाः अपि तैः सह मिलित्वा गृह्णन्तु, बध्नन्तु, छिन्दतु इति क्रोशन्ति स्म । तथा क्रोशन्तः एव भवनद्वाराणि उदघाट्य बहिरागत्य, पूर्वनिर्णीते स्थले सिद्धान् अश्वान् आरुह्य सिंहदुर्गं प्राप्तवन्तः ।
एतेन संघटनेन शिवराजस्य शत्रूणां भीतिरवर्धत । एतावत्पर्यन्तं सः एकः पर्वतीयमूषक इत्येव चिन्तयन्तः आसन् ते । इदानीं तु तस्य समीपे मन्त्रतन्त्रादिकम् अस्तीति, सः भूतो वा पिशाचो वा भवेदिति भावयन्ति स्म-। एतां सम्पूर्णां वार्तां श्रुत्वा औरङ्गजेबः लज्जया स्तम्भीभूतः । षयिस्तेखानं दण्डयित्वा वङ्गप्रदेशं प्रेषितवान् ।
"https://sa.wikipedia.org/wiki/छत्रपति_शिवाजी" इत्यस्माद् प्रतिप्राप्तम्