"विदुरः" इत्यस्य संस्करणे भेदः

No edit summary
शक्तः
पङ्क्तिः ३:
[[दुर्योधन:]] जन्मन: अनुक्षणमेव शृगाल: इव चीत्कारं कर्तुम् आरब्धवान् आसीत् । तस्य जननसमये अनेका: अमङ्गलसूचना: अपि अभवन् । एतद् सर्वं दृष्ट्वा विदुर: ब्राह्मणै: सह मिलित्वा राजानं धृतराष्ट्रं वदति यत् ‘भवत: एष: पुत्र: निश्चयेन कुलनाशक: भविष्यति । अत: एतस्य त्यागः वरम् । एष: जीवति चेत् भवद्भि: दु:खम् अनुभोक्तव्यं भवति । कुलस्य निमित्तम् एकां व्यक्तिं, ग्रामस्य निमित्तम् एकं कुलं, देशस्य निमित्तम् एकं ग्रामम्, आत्मन: निमित्तं सम्पूर्णपृथिव्या: परित्यागः करणीयः चेत् दोषः नास्ति इति शास्त्रेषु उक्तम् अस्ति’ इति । किन्तु मोहवशात् [[धृतराष्ट्र:]] विदुरस्य वचनं न अङ्गीकरोति । तेन जीवनपूर्णं दु:खम् अनुभूतवान् । स्वस्य जीवनकाले एव कुलस्य नाशमपि द्रष्टव्यम् अभवत् । महात्मनः हितवचने ध्यानम् अदत्त्वा दु:खम् आहूतवान् ।
 
यदा [[दुर्योधन:]] पाण्डवानाम् उपरि अत्याचारान् कर्तुम् आरब्धवान् तदा विदुर: सहजतया पाण्डवेभ्य: सहानुभूतिं दर्शयन् आसीत् । यत: प्रथमं तु ते पितृहीना: आसन् । द्वितीयं ते धर्मात्मनः आसन् । विदुर: प्रत्यक्षपरोक्षरूपेण पाण्डवानां रक्षणं साहाय्यं च करोति स्म । पाण्डवानां यावत् वा विपदा: आगच्छन्तु नाम अन्तिमः विजयः तु तेषामेव इति विदुर: ज्ञातवान् आसीत् । दीर्घायुष्मतः पाण्डवान् केऽपि मारयितुं न शक्नुवन्ति इति एष: जानाति स्म । कदाचित् क्रीडासमये दुर्योधन: [[भीमः|भीमसेनाय]] विषं खादयित्वा तं गङ्गानद्यां नुत्तवान् आसीत् । भीम: समये न प्रत्यागतवान् इति मातु: [[कुन्ती|कुन्त्या:]] चिन्ता, दुर्योधनस्य विषये संशय: अपि आरब्धः । तदा विदुर: तस्या: समाधाननं कारयित्वा वदति – ‘एतस्मिन् अवसरे मौनेन लक्ष्यं साधयन्तु । दुर्योधनस्य विषये सन्देहस्य प्रकटनम् अपायकारि अस्ति । कुपित: स: भवत्या: अन्यबालान् अपि पीडयेत् । भीमसेन: मृत: नास्ति । सः शीघ्रं प्रत्यागच्छति’ इति । कुन्ती विदुरस्य वचनम् अङ्गीकृतवती । तस्य वचनं सत्यमभवत् । कतिपय दिनानन्तरं सशक्त:शक्तः भीम: प्रत्यागतवान् ।
 
लाक्षागृहत: बहि: गन्तुं मार्गं युक्तिं च विदुर: एव पाण्डवेभ्य: सूचितवान् आसीत् । एष: केवलं नीतिज्ञ: नासीत् । एतस्य बहुभाषाणां ज्ञानमपि आसीत् । पाण्डवानां वारणावतं प्रति गमनसमये एष: म्लेच्छभाषया तेषां विपत्ते: सूचनां, मुक्तिं प्राप्तुं क: उपाय: अनुसरणीय: ? इत्यपि सूचितवान् आसीत् । तावदेव न, लाक्षागृहत: बहि: गन्तुं कञ्चित् मार्गं कर्तुम् एष: पूर्वमेव सेवकमपि योजितवान् आसीत् । स: भूमे: अन्त: लाक्षागृहत: वनं गन्तुं मार्गं सज्जीकृतवान् आसीत् । लाक्षागृहाय अग्निं प्रज्वाल्य पाण्डवा: मात्रा कुन्त्या सह तेन मार्गेण एव बहि: आगतवन्त: । गङ्गातटे नद्याः पारगमनाय विदुर: नाविकेन सह नौकामपि योजितवान् आसीत् । एवं सर्वे पाण्डवा: गङ्गां पारयित्वा गतवन्त: । बुद्धिमान्, नीतिज्ञ: विदुर: एवं पाण्डवानां प्राणान् रक्षितवान् । दुर्योधनादयः यथा न जानीयुः तथा अवधानं दत्तवान् । पाण्डवा: लाक्षागृहे मात्रा सह दग्धा: अभवन् इत्येव जना: चिन्तितवन्त: । सर्वत्र शारीरकस्य बलस्य, अस्त्रबलस्य च उपयोग: न भवति । आत्मरक्षणाय नीतिबलस्य आवश्यकता अपि भवति । महात्मा विदुर: धर्मशास्त्रज्ञानेन सह नीतिभाण्डार: अपि आसीत् ।
"https://sa.wikipedia.org/wiki/विदुरः" इत्यस्माद् प्रतिप्राप्तम्