"विद्यारण्यः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३:
इतिहासॆ त्रयोदशशतकम् सर्वदा अस्माभिः स्मर्तव्यमॆव । कारणं साधकानां साधनादि यथा ख्यातिमवाप तथैव तुरूष्काणाम् आक्रमणॆन उद्विग्नाः हैन्दवः सन्त्रासितासश्र्च । अस्माकं संस्कृतिं सम्पत्तिञ्च विनाशयितुमॆव समुत्पन्नाः नीचाः, एवं तैः संस्कृतॆः रक्षणमगत्यं कर्तव्यमिति मत्वा 'माधवः' एव तुरीयाश्रमाम् स्वीक्रुत्य 'विद्यारण्यः इति प्रथितः अभवत् ।
 
स्मरणीयः अयं महान् चॆतनः शङ्करभगवत्पादानाम् अवतारात् पञ्चशतवर्षानन्तरं द्वादश संख्याकः सन् शारदापीठमलङ्करॊत् । अस्य मार्गदर्शनॆ एव श्रृङ्गगिर्यां तथा पम्पाक्षॆत्रॆ दॆवालयादिकम् विनिर्मितमिति अवगच्छाम ऎतिह्यॆन । न कॆवलमयं सन्यासीसंन्यासी आसीत् परं राजर्षिरपि भूत्वा जनान् राज्यञ्च सम्यक् पॊषयामास । अस्य "माधवीय शङ्करविजयं" इति कृतिः शङ्कराचार्याणां जीवनसूचीग्रन्थ इत्यॆव प्रसिद्धः अस्ति । अद्यापि काव्यमिदं शङ्करजयन्त्यां सर्वैः गीयतॆ तथा स्मर्यन्तॆ च जनैः ।
 
श्रीविद्यारण्ययति: तुङ्गभद्रातीरॆ शॊभमानं पम्पाक्षॆत्रम् अध्यतिष्ठत् । अराजकॆ तस्मिन् राज्यॆ राजानं समीक्षमाणः आसीत् । तदैव कदाचित् युवानौ आगतौ । तौ च यदुवंशंजातौ, शौर्यसम्पन्नौ, राजलक्षणयुतौ सुन्दरौ, सूर्यचन्द्राविव कान्तियुक्तौ आस्ताम् । तावॆव हरिहरबुक्कनामानौ । तौ यतिं श्रीविद्यारण्यम् उपसृत्य सप्रणामम् एवम् अवदताम् - "आवाम् अस्य राज्यस्य राजवंशीयौ, सम्प्रति राज्यकॊषाभ्यां विहीनौ अटन्तौ स्वः" ।
"https://sa.wikipedia.org/wiki/विद्यारण्यः" इत्यस्माद् प्रतिप्राप्तम्