"चार्ल्स् डार्विन्" इत्यस्य संस्करणे भेदः

स्मारक
स्मारक
पङ्क्तिः ४८:
अयं चार्ल्स् डार्विन "लघुभेदयुक्ताः समानकुलस्य [[प्राणी|प्राणिनः]], [[पक्षी|पक्षिणः]], [[पुष्पम्|पुष्पाणि]] वा यदि समर्थतया जीवन्ति तर्हि ते तं भेदम् अग्रिमां वंशश्रेणीं प्रति तथैव प्रेषयन्ति” इत्यपि प्रत्यपादयत् । अयम् एव अंशः जीविजातेः उगमस्य कारणम् । आनुवंशिकस्य आधारः अपि अयम् एव । अनेन लिखितस्य '''“जीवजातीनाम् उद्भवः”''' (आरिजिन् आफ् स्पीशीस्) इति पुस्तकस्य १२५० प्रतयः अपि मुद्रणदिने (१८५९ तमवर्षस्य नवेम्बरमासस्य २४ तमः दिनाङ्कः) विक्रीताः अभवन् । तत् पुस्तकं जनानां चिन्तनक्रमे क्रान्तिम् एव अकरोत् । अनेन चार्ल्स डार्विनेन ये अंशाः प्रतिपादिताः ते अंशाः तत्पूर्वम् अन्यैः प्रतिपादिताः एव आसन् । परन्तु तेषु केनापि वैज्ञानिकाः सत्यांशाः न उल्लिखिताः आसन् । चार्ल्स डार्विन तु सर्वम् अपि विषयं वैज्ञानिकैः सत्यांशैः समर्थितवान् आसीत् । तदवसरे तेन यावती प्रशंसा प्राप्ता तावती एव टीका अपि प्राप्ता । तस्य चार्ल्स् डार्विनस्य समर्थकाः तं "जीवविज्ञानस्य ऐसाक् न्यूट्न्” इति प्रशंसितवन्तः । विरोधिनः तु "बैबल्–ग्रन्थस्य विरोधं कुर्वन् पापी” इति अवदन् । किन्तु सः चार्ल्स् डार्विन तु सर्वस्मात् अपि कोलाहलात् दूरे एव तिष्ठन् गृहे "मानवस्य उद्भवः” (दि डिसेण्ट् आफ् म्यान्) इति पुस्तकस्य लेखने मग्नः आसीत् । तदपि पुस्तकं प्रथमस्य पुस्तकस्य मुद्रणस्य १२ वर्षाणाम् अनन्तरम् अपि महान्तं कोलाहलम् एव अकरोत् । तस्मिन् पुस्तके सः "मनुष्याः कपिभिः उद्भूताः” इति न अवदत् । तत् स्थाने "पूर्वतनाः कपयः मनुकुलस्य सम्बद्धाः” इति उक्तवान् आसीत् । १९२५ तमवर्षपर्यन्तम् अपि अस्य चार्ल्स् डार्विनस्य पर-विरोधस्य चर्चाः प्रचलन्ति स्म ।
 
अस्य चार्ल्स डार्विनस्य अन्यानि पुस्तकानि अपि बहुप्रसिद्धानि आसन् । तानि सर्वाणि अपि पुस्तकानि शैल्याः तथा स्पष्टस्य निरूपणस्य कारणतः एव प्रसिद्धानि अभवन् । तानि च "प्रवालद्वीपस्य रचना तथा वितरणम्”, "अग्निपर्वतद्वीपाः”, "भूवैज्ञानिकानि वीक्षणानि” च । विंशतितमे शतके आनुवंशिकविज्ञानस्य क्षेत्रे जातानि नूतनानि संशोधनानि अस्य चार्ल्स् डार्विनस्य प्रकृतेः चयनस्य सिद्धान्तं किञ्चित् प्रमाणेन दुर्बलम् अकुर्वन् । तथापि सः इङ्ग्लेण्ड्देशे गण्यव्यक्तिः आसीत् । सः १८८२ तमे वर्षे एप्रिल्–मासस्य १९ दिनाङ्ग्के यदा मरणम् अवाप्नोत् तदा तस्य समाधिःस्मारकम् अपि ऐसाक् न्यूटन्, मैकेल् प्यारेडे, चार्ल्स् लयाल् इत्यादीनां समाधिसमीपेस्मारकसमीपे वेस्ट् मिनिस्टरस्य स्थाने एव कृतः ।
 
==बाह्यानुबन्धः ==
७७,०७८

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/295627" इत्यस्माद् प्रतिप्राप्तम्