"महादेवभाई देसाई" इत्यस्य संस्करणे भेदः

निष्कपटः
स्मारक
पङ्क्तिः ३७:
 
== महादेवस्य मृत्युः ==
[[चित्रम्:Mahadev and kastoorba.JPG|right|400px|thumb|<center>'''दक्षिणहस्ते, वामहस्ते च क्रमेण [[कस्तूरबा]]-महादेवयोः समाधिःस्मारकम्'''</center>]]
मनुष्यजीवनसम्बद्धाः महादेवस्य विचाराः अतिगहनाः आसन् । सः अवगतवान् आसीत् यत्, क्षणानन्तरं जीवने किं भविष्यति इति न कोऽपि जानाति । अतः सः जीवनं नश्वरम् इति बोधयितुम् आश्रमवासिभ्यः [[सरदार वल्लभभाई पटेल|लोहपुरुष]]स्य जीवने घटितां घटनां श्रावयति स्म । [[सरदार वल्लभभाई पटेल|लोहपुरुषः]] 'ब्रीज' इति क्रीडायाः महान् रसिकः आसीत् । एकस्मिन् दिने सः नूतनानि वस्त्राणि धृत्वा मित्रैः सह 'ब्रीज'-क्रीडायां रतः आसीत् । कश्चित् मित्रं तस्य समीपस्थे आसन्दे एव स्थित्वा क्रीडन् आसीत् । अकस्मात् सः मित्रं [[सरदार वल्लभभाई पटेल|लोहपुरुष]]स्य उपरि एव पतितः । [[सरदार वल्लभभाई पटेल|लोहपुरुषः]] किमपि वदेत् तस्मात् पूर्वमेव [[सरदार वल्लभभाई पटेल|लोहपुरुषस्य]] ज्ञानमभूत् यत्, एषः तु मृतः इति । तस्य मित्रस्य हस्ते 'ब्रीज'-क्रीडापत्राणि तथैवासन् । परन्तु सः मृतः । ततः [[सरदार वल्लभभाई पटेल|लोहपुरुषः]] कदापि 'ब्रीज'-क्रीडां न क्रीडितवान् । एतस्याः घटनायाः उल्लेखं कुर्वन् महादेवः जीवनस्य नश्वरतां बोधयति स्म । जीवनं नश्वरम् इति विचारः ईश्वराय कार्यं करणीयम् इति महादेवं बोधयति स्म । महादेवस्य मृत्युरपि अकस्मादेव अभूत् ।
 
पङ्क्तिः ४४:
किञ्चित् समयानन्तरं स्पष्टम् अभूत् यत् हृदयाघातेन सः मृतः इति । [[मोहनदासकरमचन्दगान्धिः|महात्मा]] उक्तवान्, "तस्य कोषान् रिक्तान् कुर्वन्तु" इति । कश्चित् सेवकः कोषयोः हस्तं स्थापयति । एकस्मात् कोषात् लेखनी, अपरस्मात् कोषात् [[श्रीमद्भगवद्गीता]] प्राप्ता तेन । रुद्धस्वरेण [[मोहनदासकरमचन्दगान्धिः|महात्मा]] उक्वान्, “'वैष्णव जन तो..' गीतं गायन्तु सर्वे । ततः रामनाम्नः गानं, [[श्रीमद्भगवद्गीता]]याः पठनञ्च करिष्यामः” इति । महादेवस्य पार्थिवशरीरं स्नपयित्वा [[मोहनदासकरमचन्दगान्धिः|महात्मनः]] प्रकोष्ठे स्थापितवन्तः । ततः महादेवस्य पार्थिवशरीरस्य समीपम् उपविश्य सर्वे [[श्रीमद्भगवद्गीता]]याः पारायाणम् अपि कृतवन्तः । तत्र [[मोहनदासकरमचन्दगान्धिः|महात्मा]] उक्तवान्, “महादेवः सर्वदा कारागारस्य बन्दिवत् जीवनं यापितवान् । अतः तस्य अन्तिमविधिः अपि बन्दिवत् एव भवेत्” इति । कारागारस्य अधिकारी चन्दनं, पुष्पाणि च आनीतवान् । चन्दनं महादेवस्य ललाटे प्रस्थाप्य सर्वे क्रमशः तं पुष्पैः अवन्दन् । वन्दनप्रक्रिया चलन्ती एव आसीत्, कारागाराधिकारिणः शवं नेतुम् आगताः । तत् दृष्ट्वा [[मोहनदासकरमचन्दगान्धिः|महात्मा]] अवदत्, “महादेवः मम पुत्रः आसीत् । कोऽपि पिता कदापि तस्य पुत्रस्य शवम् अन्यस्मै अन्तिमसंस्काराय न यच्छति । अहमेव तस्य अन्तिसंस्कारं करिष्यामि” इति । ततः [[मोहनदासकरमचन्दगान्धिः|महात्मा]] एकस्मिन् हस्ते दण्डं, अपरे हस्ते घटं नीत्वा अग्रे चलनम् आरब्धवान् । सर्वे रामनाम जपन्तः तम् अनुसृतवन्तः । एवं [[भारत]]स्य सुपुत्रः परमयात्रां प्रारभत ।
 
[[पुणे]]-महानगरस्य 'आगा खान पेलेस्' इत्यत्र महादेवस्य '[[ॐ]] समाधिःस्मारकम्' अस्ति ।
 
{{Panorama
"https://sa.wikipedia.org/wiki/महादेवभाई_देसाई" इत्यस्माद् प्रतिप्राप्तम्