"राष्ट्रियबालदिनम् (भारतम्)" इत्यस्य संस्करणे भेदः

कृष्टवान्
हननं
पङ्क्तिः २७:
श्री जवाहरलालनेहरुः इन्दिराप्रियदर्शिनीं प्रति यानि पत्राणि प्रेषितवान् तत्र मार्गदर्शनं कृतवान् अस्ति । एतानि पत्राणि अपि ‘लेटर्स् टु इन्दिरा ‘इति प्रसिध्दानि सन्ति । कारागृहादेव प्रेषितानि एतानि पत्राणि ।
१९४७तमवर्शस्य आगस्ट१५ तमे दिने मध्यरात्रे अन्तिमः वायिसरायः [[लार्ड मौण्टब्याटन्]] महोदयः नियमानुसारं प्राशासनिकाधिकारं हस्तान्तरितवान् । तदा एव पाकिस्तानदेशः अपि स्वतन्त्रः अभवत् । श्री जवहरलाल नेहरुः स्वतन्त्र भारतस्य प्रथमप्रधानमन्त्री अभवत् ।[[सरदारवल्लभभायीपटेलः]] उपप्रधानमन्त्री अभवत् । श्री पटेलमहोदयः संस्थानानां भारते विलीनीकरणार्थम् उत्तमं कार्यं कृतवान् । ततः १९५० तमे वर्षे जनवरी मासस्य२६ तमे दिने भारतदेशः स्वतन्त्र्यगणराज्यम् इति घोषितः अभवत् । भारतीयसंविधानं च रचितम् अभवत् ।
१९४८ तमे वर्षे महात्मा गान्धिनः हत्याहननम् अभवत् । भारते अनक्षरता दारिद्र्यं निरुद्योगः शिक्षासमस्यादि बहुसमस्याः आसन् । देशस्य अभिवृद्धिकार्यार्थं पञ्चवर्षिकयोजना आरब्धा अभवत् । भारतदेशः शान्तिप्रियदेशः अतः पञ्चतत्वानि अङ्गीकृतानि अभवन् । शान्तियुतं जीवनम् , आक्रमणनिरोधः समानताहितरक्षणं , आन्तरिकव्यवहारेषु अन्यदेशस्य हस्तक्षेपनिरासः, परस्परं गौरवः परमाधिकारश्च पञ्चतत्वानि ।
श्री जवहरलालनेहरुः स्वाधिकारसमये जनेभ्यः ”आराम हराम है” इत्यवदत । कार्येषु प्रवृत्ताः भवन्तु इति च मार्गदर्शनं कृतवान् । कलासाहित्यप्रियः इतिहासज्ञः धीरनायकः श्री जवाहरलालनेहरुः सततं १७ वर्षाणि यावत् भरतस्य प्रधानमन्त्रिस्थाने कार्यं कृतवान् ।
विविधकार्यार्थं देशे सञ्चरन् श्रीजवाहरलालनेहरुः प्रथमतः बालान् दृष्ट्वा शुभाशयं वदति स्म । पाटलपुष्पं सर्वदा तस्य वस्त्रे धरति स्म । एतस्य पुत्र्याः विवाहः श्री फिरोजगान्धिमहोदयेन साकं अभवत् । सञ्जयः राजीवः च पौत्रौ । श्रेष्ठनायकः सन् अपि सः गृहे श्रेष्ठपिता श्रेष्ठः पितामहः इति ख्यातः अभवत् । श्री जवहरलालनेहरुः महाभागः [[भारतरत्नप्रशस्तिः|भारतरत्नप्रशास्त्या]] पुरस्कृतः ।
"https://sa.wikipedia.org/wiki/राष्ट्रियबालदिनम्_(भारतम्)" इत्यस्माद् प्रतिप्राप्तम्