"कर्मवादः" इत्यस्य संस्करणे भेदः
Content deleted Content added
पङ्क्तिः १६:
===[[बौद्धदर्शनम्|बौद्धमते]]===
उद्देशपूर्वकं कृतस्य सर्वस्य अपि कर्मणः फलम् अस्मिन् जन्मनि अग्रिमजन्मनि वा अवश्यम् अनुभोक्तव्यम् एव । तस्मात् पलायनं कृत्वा गमनाय कोपि प्रदेशः अस्यां सृष्टौ न विद्यते । - (धर्मपद-पापवर्ग-१२८)<br />
हे ब्राह्मण युवक, जीविनः स्वस्य कर्मभिः बद्धाः । कर्मणां फलं तेषामेव । कर्माणि एव तस्य अग्रिमस्य जन्मनः निर्णयं कुर्वन्ति । कर्म एव तस्य मित्रं परमः आश्रयश्च । उत्तमम् अधमं च जन्म प्राप्य जीवी कर्मणः मुक्तिं प्राप्नुयात् । - (सूत्रपिटक-चूलकम्मविभङ्ग-)
बौद्धदर्शने क्रियायाः बाह्यरूपस्य अपेक्षया कर्तुः आन्तरङ्गिकी स्थितिः एव प्रामुख्यम् आवहति । यतः इच्छा एव बाह्यरूपं प्राप्नोति । कर्म
==वैज्ञानिकी दृष्टिः==
भौतविज्ञाने 'शक्तेः नित्यता नियमः' यथा विद्यते तथैव 'नैतिकमौल्यानाम् अपि नित्यता नियमः' विद्यते । इमं नियमम् एव ऋषयः स्वतपसा अवगत्य '''कर्मनियमः''' इति निर्दिष्टवन्तः । मानवः मनसा वाचा कायेन यत् कर्म करोति तस्य योग्यं फलं प्राप्नोति एव । कर्मफलं भवति द्विधा - १ बाह्यपरिणामः - कर्म एव कारणं भूत्वा परिणामं जनयति ।
|