"केङ्गल् हनुमन्तय्य" इत्यस्य संस्करणे भेदः

निष्कपटः
शृ
पङ्क्तिः २७:
 
==जन्म बाल्यं च==
केङ्गल् हनूमन्तय्यस्य ग्रामः [[रामनगरमण्डलम्| रामनगरमण्डलस्य]] लक्कप्पनहळ्ळी । पिता वेङ्कटगौडः माता नञ्जम्मा कुलदैवतं केङ्गल् हनूमन्तस्वामी(हनुमान्) । कृषकानां सम्प्रदायानुगुणं प्रथमपुत्रस्य कृते कुलदेवस्य नाम एव अङ्कितम् । अस्य बाल्ये कुटुम्बे अतिदारिद्र्यम् आसीत् । गृहं गोष्टं च एकम् एव आसीत् । हनूमन्तय्यस्य प्राथमिकी शिक्षा केङ्गेरीग्रामे एव समाप्ता । क्रि.श. १९२०तमे वर्षे [[कन्नड]]एल्.एस्.परीक्षाम् उत्तीर्णवान् । धनाभावात् मध्ये एकं वर्षं यावत् शालां न गतवान् । तस्य श्रद्धां सामर्थ्यं च दृष्ट्वा तद्ग्रामीणाः सहाय्यम् आचरितवन्तः । तेन बालकः हनूमन्तय्यः [[बेङ्गळूरु]] गत्वा एल्.एस्.परीक्षां समापितवान् । [[वेस्लिप्रौडशाला]]यां मेट्रिक्, मैसूरुसर्वकारीयमहविद्यालये च प्रैढशिक्षणस्य अध्ययनम् अभवत् । क्रि.श. १९३०तमे वर्षे महाराजमहाविद्यालयतः पदवीं प्राप्तवान् । क्रि.श.१९३२तमे वर्षे [[पुणे]]शासनविद्यालयतः एल्.एल्.बि.पदवीम् अवाप्नोत् । अस्य प्रतिदिनं दिनचर्यालेखनस्य सदभ्यासः आसीत् । बाल्ये राजाजी-इत्याख्यस्य [[चक्रवर्ती राजगोपालाचार्यः|चक्रवर्ती राजगोपालाचार्यस्य]] भाषणम् अश्रुणोत्अशृणोत् । अतः तस्य प्रभावः जीवने अतीवः आसीत् । राजाजिमहोदयस्य आङ्ग्लभाषाभाषणेन बहुधा अकृष्टः । स्वयं भाषणकलायां परिणतिं साधयितुम् इष्टवान् । सर्वदा प्रयत्नशीलः अल्पकालेनैव अङ्गभाषया कन्नडाभाषया च भाषणस्य नैपुण्यं सम्पादितवान् ।
अध्ययनावसरे विद्यार्थिसङ्घं रचयित्वा तस्य नायकः अपि अभवत् । सर्वदा सर्वत्र नायकत्वम् इच्छति स्म । अन्यायम् असहमानः विरोधं प्रकटयति स्म । क्रि.श.१९२७तमे वर्षे सञ्चालिते भारतकाङ्ग्रेस् छात्रसम्मेलने प्रतिनिधिरासीत् । तत्र एव काङ्ग्रेस् नायकानां परिचयः अभवत् । गान्धिमहात्मनः दर्शनस्य प्रेरणादयकान् अंशानां प्रापणस्य सदवकाशः तेन प्राप्तः ।
 
"https://sa.wikipedia.org/wiki/केङ्गल्_हनुमन्तय्य" इत्यस्माद् प्रतिप्राप्तम्