"चार्वाकदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
त्वा
पङ्क्तिः २३:
 
तत्त्वज्ञानिनां कृते सृष्टेः रहस्यं अनुसन्धानस्य विषयः भवति । सर्वासु दार्शनिकविचारधारासु विषयस्यास्य विश्लेषणं कृतम् । यथा सर्वेषु मानवशरीरेषु जातिगतसाम्ये विद्यमानेऽपि आकृतिगतभेदो भवति तथैव बुद्धिवैषम्यात् सृष्टितत्त्वम् एकं सदपि पृथक्बुद्धिविषयत्वात् विविधरूपेषु ज्ञातुं शक्यते ।<br />
दर्शनशास्त्रे प्रमेयतत्त्वानां सम्बन्धे इदमेव तथ्यं घटते । सृष्टि-स्रष्टा-प्रभृतीनि तत्त्वानि विविधदर्शनेषु विविधदृष्ट्या मीमांसितानि । तत्त्वसाक्षात्कारस्य प्रक्रियायां चिन्तकः चिन्तनं कृत्त्वाकृत्वा उपलब्धं निष्कर्षं प्रस्तौति । एवञ्चेत् विविधानां चिन्तकानां निष्कर्षेषु पार्थक्यं दृश्यते । अतः दार्शनिकानाम् एकस्मिन् एव विषये मतान्तराणि स्वाभाविकानि वर्तन्ते ।<br />
भारतीयदर्शने एकः सम्प्रदायविशेषः उपर्युक्तमतेन सहमतो नास्ति । तस्य विचारणा विद्यते यत् सृष्टेर्यत् स्थूलं रूपं दृश्यते तदेव सत्यमस्ति । दृश्यमाणस्वरूपापेक्षया किमपि अन्यत् तत्त्वं सूक्ष्मरूपेण सृष्टिमूले वर्तते इति एतत् विश्वासयोग्यः न भवति । यतो हि अदृष्टस्य सूक्ष्मतत्त्वस्य सत्तायामपि किं प्रमाणमस्ति इति नैव वक्तुं शक्यते । एवञ्चेत् बुद्धिभेदात् एते स्थूलबुद्धयो दार्शनिकाः स्वकीयया स्थूलबुद्ध्या यदपि अवगन्तुं क्षमन्ते,तदेव मूलतत्त्वं स्वीकुर्वन्ति । <br />
अयं संशयः सन्देहवादो वा यद्यपि महाभारतकालात्पूर्वमपि विद्यमान आसीत् येन वैदिक दर्शनानि पर्याप्तं क्षतिग्रस्तानि अभवन् । यद्यपि महाभारतकाले भगवद्गीताया माध्यमेन वैदिकदर्शनस्य पुनः प्रतिष्ठापना विहिता, तथापि वेदविरोधिविचाराणां मूलोच्छेदनं नैव जातम् । वैदिकदर्शनस्योपरि तेषां वेदविरोधिनामाचार्याणां प्रहारोऽपि सततं समजायत ।
"https://sa.wikipedia.org/wiki/चार्वाकदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्