"वसन्तपञ्चमी" इत्यस्य संस्करणे भेदः

कश्चित्
त्त्व
पङ्क्तिः ४०:
भगवती सरस्वती सत्वगुणी अस्ति । इयं वाग्देवी, ज्ञानदेवी, शारदा, गिरा, वाचा, गौ, ब्राह्मी, वाणी, भाषा इत्यपि कथ्यते । अस्याः माहात्म्यं प्रभावः च विशिष्टः अस्ति । सरस्वतीदेव्याः कृपया जनाः ज्ञानिनः, विद्वांसः, मेधाविनः भवन्ति । विद्या बुद्धिः च अस्याः कृपया एव प्राप्येते । वसन्त-पञ्चम्यां व्रतः उपवासः वा कृत्वा विधिपूर्वकं महासरस्वतीपूजा करणीया । शिशूनाम् अक्षरज्ञानस्य आरम्भः अस्मिन् दिने एव करणीयः । कारणं विद्यारम्भाय इदं दिनं पवित्रं मन्यते ।
 
गृहेषु बालकैः सह यज्ञादिकर्म, जपः, कीर्तनादि कृत्वा [[सरस्वती]]देव्याः पूजा करणीय़ा । इयं पूजा प्रातःकाले करणीया । प्रातःकाले अस्याः पूजायाः महत्वम्महत्त्वम् अधिकं वर्तते । कलशस्थापनां कृत्वा सरस्वत्याः आह्वानं करणीयम् । गायत्रीमन्त्रेण अपि होमकर्म कर्तुं शक्यते । ’ॐ श्रीं ह्रीं सरस्वत्यै स्वाहा’ इति मन्त्रेण अष्टोत्तरशत(१०८)आहुतयः दातव्याः । सरस्वत्याः १००८ नामभिः पूजां कर्तुं शक्नुमः । पूजायां लेखन्यः, पुस्तकानि च देव्याः समक्षे स्थापनीयानि ।
 
सरस्वतीपूजापरम्परायाः गृहेषु बालकाः मेधावन्तः, संस्कारवन्तः, यशस्विनः च भवन्ति । तान् बालकान् विद्यार्जनाय विद्यादानाय च प्रेरयितुं शक्नुमः । प्राचीनाः कवयः, ऋषयः, मुनयः च स्वेषां ग्रन्थेषु सर्वप्रथमं महा[[सरस्वती]]देव्याः पूजां कुर्वन्ति स्म । कश्चित् सरस्वती-मन्त्रः अधः प्रदत्तः अस्ति । तस्य नित्यपठनं करणीयम् ।
"https://sa.wikipedia.org/wiki/वसन्तपञ्चमी" इत्यस्माद् प्रतिप्राप्तम्