"माणिमाधवचाक्यारः" इत्यस्य संस्करणे भेदः

त्त्व
पङ्क्तिः २०:
माणिमाधवः चाक्यारः भारतस्य विश्रुतः [[कलाकारः|कलाकाराः]]। केरलं दक्षिणभारतस्य तिविशिष्टं लघु च राज्यम् अस्ति । [[कूटियाट्टम्|कूटियाट्टं]] तस्य सुन्दरा प्राचीना प्रान्तीया च कला अस्ति । अस्यां कलायां कोविदः अयं माणिमाधवः शाक्यारः । अस्य जीवितकालः क्रि.श.१८९९तमवर्षस्य फेब्रवरि १५दिनाङ्कतः क्रि.श.१९९१तमवर्षस्य जनवरी १४दिनाङ्कपर्यनतम् । अस्यां कलायाम् एषः सर्वश्रेष्ठम् अभिनयं सुचारु नाट्यं प्रदर्शयति स्म । अस्य जन्म [[केरलराज्यम्|केरलस्य]] कोजिकोडु मण्डलस्य करयादस्य समीपे तिरुवङ्गयूरुग्रामे क्रि.श.१८९९तमे वर्शे फेब्रवरी मासस्य १५दिनाङ्के अभवत् । अस्य पिता विष्णुशर्मा माता सावित्रि इल्लोतम्मा च । अस्य माणिकुटुम्बः उत्तरकेरलस्य चाक्यार् वंशसम्बद्धः । अस्य वंशः एव [[संस्कृतम्|संस्कृतनाट्यशास्ताधारितं]] कूटियाट्टस्य संरक्षकः । इयं कला अस्मिन् माधवे परम्परया एव उदिता ।
 
पारम्परिकेन गुरुकुलक्रमेण अयं चाक्यार् कूटु, कूटियाट्टं च कलाशिक्षां सम्पादितवान् । एतयोः कलयोः विद्वान् पितृव्यौ एव अस्य गुरू अभवताम् । ते गुरुः माणि पर्मेश्वर चाक्यारः, गुरुः माणि नीलकण्ठ चाक्यारः। कूटियाट्टं कलायाः माणि परम्परायाम् एव आगतः यस्यां रसाभिनयस्य वाचिकाभिनयस्य च महत्वम्महत्त्वम् अस्ति । अयम् उन्नतश्रेण्याः संस्कृतपण्डितः अपि । अयं संस्कृतभाषया भाषायाः कलायाः च विषययोः उपन्यासं करोति स्म । भारतीयपरम्परगतेन क्रमेण अलङ्कारशास्त्रं, नाट्यशास्त्रं, व्याकरणशास्त्रं, न्यायशास्त्रं, ज्योतिश्शात्रं च अनेन अधीतानि । संस्कृताध्ययने अस्य गुरुः पण्डितरत्नं पजेदतु शङ्करन् नम्बूदरिपादाः । अयं, सार्वकालिकपण्डितः संस्कृतभाषाकोविदः दर्शनकलानिधिः रामवर्मा परीक्षितः तम्पुरन् (कोच्चि महारजः) इत्यस्य प्रियशिष्यः आसीत् । अस्य मार्गदर्शनेन माणिमधव चाक्यरः न्यायशास्त्रं नृत्यशास्त्रं चाधीतवान् । अयं किलिक्कुरुस्सुमङ्गले विद्यमनायां बालकोल्लासिनी संस्कृतपाठशालायां संस्कृतभाषाध्ययनं कृतवान् ।
 
[[चित्रम्:Mani Madhava Chakyar as Ravana.jpg|thumb|left|200px|कूडियाट्टं शैल्यामाणिमाधव चाक्यारस्य रावणपात्रम्]]
"https://sa.wikipedia.org/wiki/माणिमाधवचाक्यारः" इत्यस्माद् प्रतिप्राप्तम्